पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः । भिहितकारकविभक्तित्वात् , प्रातिपदिकार्थमात्रवाचित्वा द्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात्प्रथ- मावैयर्थ्यम् । लिङ्गसङ्ख्याप्रतिपच्यर्थ तस्यावश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च । ततश्च यदि भिहितत्वमप्रसक्तमिति तिहनभिहितत्वमेव विशेषणं स्यात् । त- तश्च देवदत्तेन पक्तेति प्रयोगापत्तिः । चैत्रो मैत्रश्च गच्छत इत्यत्र च तिङाधनभिहितायां कर्बकत्वसङ्ख्यायां चैत्रेण मैत्रेणेति तृतीयापत्तिरिति । को देवदत्तो यः शुक्लवासा इत्यादौ वि- नैव क्रिया प्रथमान्तयो राकाड्मयान्न प्रथमायाः कारकविभ- तित्वमित्यस्वरसादाह प्रातिपदिकति । यद्यपि “प्रातिपदि कालिङपरिमाणवचनमात्रे प्रथमा" इति पाणिनिना ऽनेकार्थेषु प्रथमा विहिता, तथाऽप्यलिङ्गनियतलिङ्गेभ्य उच्चैानादिशब्देभ्यः प्रथमायाः प्रातिपदिकार्थमात्रवाचित्वोपगमात्प्रकृतदे- | वदत्तपदस्य च नियतलिङ्गत्वात्तदभिप्रायेण तन्मात्रवाचित्वोप. न्यास इति बोध्यम् । किं प्रकृतोदाहरणे प्रथमावैयर्थ्यमापाद्यते उत सर्वत्र ? । नान्त्यः । अन्यत्र प्रथमायाः प्रयोजनान्तरसत्वा- दित्याशयेनाह लिङ्गेति । लिङ्गं च संख्या च प्रतिपत्तिश्चेति विग्रहः । सिंहो ऽस्तीत्यादौ लिङ्गयात्रार्था, घटावित्यादौ संख्यामा- | वार्था, द्रोणो व्रीहिरित्यादौ च द्रोणपदोत्तरा परिमाणाभिधानेन | बीह्यन्वयमतिपत्यर्था । भवति हि प्रातिपदिकार्थाभेदान्वयिनो वि- भक्त्यर्थपरिमाणसामान्यस्य परिच्छेदकत्वेन ब्रोह्यन्वयप्रतिपत्तिः, | नतु. प्रातिपदिकार्थस्यैव, साक्षात् नामार्थयोरभेदेनैवान्वयात् । प्रतिपत्तिपदेन पदार्थान्तरान्वयप्रतिपत्तिरुच्यते । आधे आह केवलेति । प्रकृतिसाधुत्वसिद्धिरेवात्र फलमित्यर्थः । एतेन दौ प्रय इत्यत्रापि विभक्तिवैयर्थं निरस्तम् । परस्याः