पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स्थादेव । कर्तुरभिधाने तु अभिहितत्वादेव तृतीया न प्राप्नोति, तस्या अनभिहिताधिकारत्वात् । दे- वदत्तः पचतीति प्रथमा तु प्रामोत्येव, प्रथमाया अ. पि तल्लाभे भावकर्मवाचित्वालाभेन क्रीयमाण इत्यादिप्रयोगाना- पत्तेश्चत्याशयेनैवकारः। तस्या इति । अनभिहिताधिकारे "कर्तृ- करणयोस्तृतीया"इत्यनेन विहितत्वादित्यर्थः । अथोच्येत 'लः कर्त- रि इत्यस्य तृतीयादिविधायकमूत्रस्य च छकयोरित्यायेकवाक्यत्वेन कळदिसङ्ख्यायामेकवचनादि तृतीयैकवचनादि च विधीय- ते, ततश्चाधिकारप्राप्तमनभिहितत्वं सङ्ख्यायामन्वेति विशेषणानां प्रधानगामित्वात् , अतः पचतीत्यनेन कर्तुरनभिधाने ऽपि कसंख्याया अभिहितत्वान्न देवदत्तेनेति तद्वाचकविभक्तिपसक्ति- रिति । तन्न । लकारस्यैकवचनाद्यनात्मकत्वेन ल इत्यस्य द्विव- चनैकवचन इत्यनेन सामानाधिकरण्यान्वयायोगात् । ङसन्तेन ल इत्यनेन निरनुबन्धलकारसामान्यग्रहणमङ्गीकृत्य “वर्तमाने ल- "इत्यादिविहितस्य लस्यादेश भूते द्विवचनैकवचने इत्यन्वये ऽपि द्विवचनादिसंज्ञावतो लादेशतिवादेरेवार्थकथनापत्तेः संज्ञारहित- स्य शानजादेरों न कथितः स्यात्, स्याचादेशपदाध्याहार- निमित्तं गौरवम् । लकारवच्च तृतीयादेरपि कर्तृकरणाद्यनभि- धायित्वे सत्यैन्येत्यादौ श्रुतित्वासम्भवः । अतोऽसति लादि- विधौ व्येकयोरित्यनेनैकवाक्यत्वे कर्तुराख्यातानभिधेयत्ववादिना न कर्तृगतसंख्याया आख्याताभिहितत्वं नियन्तुं शक्यम् , यत्किचि- कारकं परिच्छिन्दत्या अपि क्रियाङ्गत्वोपपत्तेः। नापि संख्या- यामनभिहितत्वान्वयित्वम्, प्राधान्येनोपस्थिते कळदावेव तदन्व- यात् , तेन देवदत्तेन पचतीतिप्रयोगापत्तिः । भवतु वा स- हयाविशेषणमनभिहितत्वं तथाऽपि संख्यायाः कृत्तद्धितसमासा- --