पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः । चर्ति इति सामानाधिकरण्यं न स्यात् । न हि केव- लं भावनावाचकस्याख्यातस्य देवदत्तपदेन सामाना- धिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृवा- चकत्वे तूपपद्यत एव । 'लः कर्तरि इति व्याकरणस्मृ. तिविरोधस्तु कर्तुरनभिधेयत्वे स्पष्ट एव । किं च क- तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगः स्यात् तृतीया हि अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन च कर्ता नाभिहित इति कर्तृवाचिनी तृतीया कामयसम्भवेन नातिदेशवचःकल्पना स्यादित्याशयः । सामा- नाधिकरण्यम् एकसंख्याभिधायकविभक्त्यन्तत्वम् । तच्च तत्संख्या- न्वये कार्याभिधान व्याप्त, देवदत्तः पक्तेत्यादावुभयदर्शनादिति भावः । उपलक्षणं चैतत् , मध्यमोत्तमादिव्यवस्थाप्रयोजकं युष्मदा- | दिसामानाधिकरण्यमपि न स्यादिति बोध्यम् । लइति "क- | रि कृद्"इत्यस्मिन्मूत्रे हि कर्तरि पदं कृदभिधेयतया कर्ता- रं प्रतिपादयति इत्यविवादम्, तस्माच्च "लः कर्माण च भावे चा- कर्मकभ्यः" इतिमुत्रे कत्तरीत्यनुवृत्त्या निष्पद्यमानमेव लाकर्त- | रीतिसूत्रं कर्तुर्लकाराभिधेयत्वं बोधयति, अबोधकत्वे वा ति. | डामिव शशानचोरपि लादेशत्वाविशेषेण तत्रापि कर्बनभिधा- नमापद्येत, ततश्च "जञ्जभ्वमानो ऽनुब्रूयाद्" इति विहितजपस्य न क्रतुयुक्तपुरुषधर्मत्वं स्यादित्याशयेन । स्पष्टइति । स्मृतिनि- रूपितो विरोधस्तत्कृतो वा जअभ्यमानाधिकरणनिरूपितो विरो- धस्तथोक्तः । नच "कर्तरि कृद"इत्यनेन शत्रादेः कर्तृवाचित्वलाभ- सम्भवः, तस्य स्थान्यर्थे निराकाङ्क्षण्वुलादिकृद्विषयत्वात् । सत्य- .