पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तामाक्षिपेद् इति स एवाख्यातवाच्यः । भावना तु आक्षेपलभ्यैव किन्न स्यात् । किं चैवं तृतीयादिविभक्ती- नामपि करणादिवाचकत्वं न स्यात् . तेषामपि क- र्तृवदाक्षेपेण लाभसम्भवात् । किं च यदि कर्ता न वाच्यः स्यात्कथमेकत्वं तेनान्वियात् । न हि शाब्दमशाब्देनान्वेतीति युक्तम् । अन्यथा ऊहादिलोपप्रसङ्गः । किं च 'देवदत्तः प. आक्षेपलभ्यैवेति । स्वीक्रियते हि सिद्धान्तिना यष्टा क्ता इत्यादिकृदन्तेषु कर्तुः शक्यत्वं भावनायाश्चाक्षेपलभ्यत्वं तथैवाख्याते स्वीकत्तुमुचितम् , आख्यातवद्वा कृदन्तेष्वपि भाव- नाया एव शक्यत्वं वक्तुमुचितम् । अथ तत्र लिङ्गसङ्कथाऽन्वया य कर्तुः शक्यत्वमङ्गीक्रियते, तर्हि आख्याते ऽपि सङ्ख्यान्वयाया- ङ्गीक्रियताम् । अथाख्यातस्थले कारकान्वयाय भावनाभिधानस्या- वश्यकत्वात् कर्तुंराक्षेपस्तहि काष्ठः पकमित्यादिषु कारका- न्वयाय कृदन्तेष्वपि भावनाभिधानापत्तिः । अथ कृदन्तेषु कर्ता- देराख्यातेषु भावनायाः प्राधान्यप्रतीतेरभिधेयव्यवस्थेत्युच्यते । तन्न । जातिगुणशब्दजन्यप्रतीतिष्वनभिधेयानामपि व्यक्तीना प्राधान्यानुभवाद् इत्याशयः । तेषामपीति । शक्यते हि वक्तुं कर्तृकरणयोरित्यायेकवाक्येन ह्येकयोरित्यादिना कर्तृकरणकत्वादौ तृतीयैकवचनादि विधीयत इति । अन्य- तरसमयपुरोडाशेषु पेषणकाले प्रत्यक्षोपस्थि- तमांसान्वितक्रियाप्रकाशनं कुर्वता मन्त्रेण प्राकृतकार्य- सिद्धेर्न मांसमसीति अहः स्यात् , उपमितप्रकृतिविधिलाक्षत प्राकृताकोपकारविशिष्टाम्भावनां विदधतश्च विकृतिविधेनैरा- थेति ।