पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः। स्तस्याः कथं यागाङ्गत्वमिति वाच्यम् । कपरि- छेदद्धारा तदुपपत्तेः । कर्त्ता चाक्षेपलभ्यः । आख्या- तेन हि भावनोच्यते । सा च कर्तारं विनाऽनुपप- ना तमाक्षिपति । ननु किमित्येवं 'वर्ण्यते आक्षेपलभ्यः कर्ता इति । आख्यातवाच्य एव किन्न स्यात् आख्यातश्रवणे भावनाया .इव कर्तुप प्रतिपत्तेः । नच भाव- नयैवाक्षेपसम्भवे किमिति तदाचकत्वं कल्पनीयमि- ति साम्प्रतम् । तथा सति आख्यातवाच्यकत्रैव भावनाऽऽक्षेपसम्भवे तद्धाचकत्वमपि न स्यात् । किंच भावनाया न केवलं कत्रैव सम्बन्धः, कारकान्तरे- णापि सम्बन्धात् । अतः सा न झटिति कर्ता- रमेवाक्षिपेद् विशेषाभावात् । कर्त्ता तु भावनयैव स- म्बद्धो न कारकान्तरेण, “गुणानां च परार्थत्वादस- म्बन्धः समत्वात्स्याद्” इति न्यायात् । अतः स झटिति 1 क्षादिति कथममूर्तस्य साक्षादन्वय इति चेत्तत्राह नचेति । नन्वेवं क्रियायां विनियुक्तस्यैव कर्तुरेकहायन्येव परिच्छेदसम्भवाद- भिहितस्यैव शब्देन विनियोगसम्भवात् स्वीकार्यमाख्यातवा- क्यत्वमत आह कर्ताचेति । सम्भवत्यनाभिहितस्यापि कर्तु- राक्षेपादङ्गत्वबोधो विवृद्धस्तोमकेषु क्रतुवागम्यमानानां मन्त्रा- णामिवेत्याशयः। वैयाकरणः शङ्कने नन्विति । तथासती. ति । तद्वाचकत्वं न स्यादिसपि वचः स्यादिति योज्यम् ।