पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नाभिधानश्रुत्या कारकाङ्गत्वम् । यजेतेत्याख्याता- भिहितसङ्ख्याया भावनाङ्गत्वं समानाभिधानश्रु- तेरेकपदश्रुत्या च यागाङ्गत्वम् । न चामूर्तीया नियोगो ज्ञेय इत्यर्थः । यद्वा यथा विभक्त्या प्रकृत्यर्थे ऽन्यस्य प्रकृत्यर्थस्य चान्य- त्र शेषत्व बोध्यत इत्युक्तं तद्विपरीतोऽपि तत्पमाणको विनि- शेगः कचिट्ठोध्यः । ज्ञाप्यते हि "तप्ते पयसि इत्यत्र द्विकर्मक धातुविशिष्टविधिनाऽऽर्थिकव्याप्यमानत्वे गृहीततात्पर्यकया सप्तम्या पयसः शेषित्वम् । ज्ञाप्यते च "हिरण्य मात्रेयाय ददाति" इत्यत्र हिरण्यात्रेययोः शेषसंस्कारानईत्वेनेप्सितस्वरहितकारकमात्र गृहीत- तात्पर्यकाभ्यां द्वितीयाचतुर्थीभ्यां प्रकृत्यर्थयोः शेषत्वम् । ज्ञाप्यते च “ऐन्द्रवायवं गृह्णाति"इत्यादौ विशिष्टार्थविधायिपदोत्तरया द्वितीयया विशेष्यगतमीप्सितत्वं प्रकरणलभ्यमावेदयन्त्या विशेष णदेवतायास्तद्वारकं क्रियासम्बन्धं बोधयन्त्या ग्रहणाङ्गत्व मित्याशयः । कारकाङ्गत्वं तत्सम्बन्धः । यदि समानाभिधान. श्रुत्या संख्याया भावनाङ्गत्वं तहीं आख्यातवाच्यः कतैवेति वदतां सङ्ख्यायाः क्रियाङ्गत्वं किं न सिध्येदत आह पदश्रुत्यति । यागेति धात्वर्थभूतक्रियोपलक्षणार्थम् । इयांस्तु भेदः-तन्मते कद्वारव सङ्खधायाः क्रियान्वयः । स्वमते तु सा- विशेषणाभावप्रयोज्यविशिष्टाभावसत्त्वेन तन्मध्यपूर्वार्द्धयोरपादनत्वे. न ग्रहणासम्भवान्मुख्यहवि शादाज्यं प्रति निधाय यष्टव्यामिति । एष “यस्य सवाणि हवींषि विनश्येयुर्घध्येयुरपहरेयुर्वा आ. ज्येन ता देवताः परिसङ्ख्याय यजेत" इति श्रूयते । श्रूतौ निमित्तविशे- पणत्व सर्वशब्दार्थस्याविषक्षणानाशमाने सर्वत्राज्यस्य विधिरिति ।