पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनियोजकथुतिप्रमाणनिरूणम् नियोगा ज्ञेयाः । “पशुना यजेत”इत्यत्रैकत्वपुंस्त्वयोः समा- दण्डं प्रयच्छति"इत्यत्र चतुर्थ्या स्वप्रकृत्यर्थशेषत्वं दण्डदाने । अत एव मैत्रावरुणो ऽपि दण्डप्रयोजक इत्युक्तं चतुर्थे । ज्ञाप्यते च “वासिष्ठानां नाराशंसः" इत्यत्र षष्ठ्याऽपि द्वितीयप्रयाजाश्रितमन्त्र. नियमस्य वासिष्टाङ्गत्वम् । अत एव 'न वासिष्ठानां सत्रे सहाधि- कारः' इत्युक्तं षष्ठे(१)। ज्ञाप्यते च पञ्चम्याऽपि स्वप्रातिपदिकार्थस्य परशेषत्वं "मध्यात्पूर्वार्द्धाच्च हविषो ऽवद्यति"इति । अत एवं 'अवतनाशे ऽवशिष्टा न पुनरवदेयाः, अनपादानतया तच्छेषस्य तत्कर्मत्वायोगाद्'इत्युक्तं पष्ठ(२) । एवं विभक्त्यन्तरममाणको वि , ( १ ) षष्ठेऽध्याये षष्ठे पादे चतुर्थाधिकरणे सत्रे ब्राह्मणमात्रस्या- धिकार उत तद्विशेषाणामिति सत्राधिकारविषयकसन्देह ऋद्धि कामस्य सत्रविधानादाविज्यस्य ब्राह्मणमात्रकार्यत्वाब्राह्मणमात्रस्य ऋद्धि कामत्वात्तन्मात्रस्याधिकार इत्येकस्मिन् पूर्वपक्षे प्राप्ते तनिवा- रकतया “वासिष्ठो ब्रह्मा भवति" इति वाक्येन वासिष्ठस्य ब्रह्म स्वविधानादवासिष्ठस्य तत्वासम्भवात्तस्य तत्राधिकारोऽवश्यं वक्तव्यः । ततश्च सत्रे समानकल्पानामाधिकारस्य निर्णीतत्वेन विभिन्न कल्पत्ववारणाय वासिष्ठानामेवाधिकार · इति द्वितीयपूर्वप. क्षे प्राप्ते सिद्धान्तः–वासिष्ठो ब्रह्मेति वाक्यस्य विधित्सितस्तो. मभागस्य स्तुत्यर्थत्वेन ब्रह्मत्वस्य वासिष्ठमात्रसम्बन्धित्वसाधक प्रमाणाभावेन "विश्वामित्रो होता"इतिवाक्यविहितहोतृत्वस्य सि. द्ध ये उक्तरीत्या विश्वामित्रस्याधिकारावश्यकत्वे तत्समानकल्पानामे वाधिकार इति सिद्धान्तितम् । (२) षष्ठे चतुर्थपादे प्रथमाधिकरणेऽवत्तनाशे शिष्टाद्रहणवि. षयक सन्देहे मध्यपूर्वार्धापादानकमवदानं "मध्यादवंद्यति पूर्वा. दघद्यति" इति श्रुत्युक्तं शिष्टेऽपि मध्यपूर्वार्द्धत्वादिसम्भवा- च्छेषतोऽपि ग्राह्यमिति पूर्वपक्षे सिद्धान्तः- कृत्स्नपुरोडाशगतमध्यपूर्वार्द्धयोरपादानत्वेन श्रवणाच्छिष्टे कृत्स्नत्व