पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- एवम् “इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानी- मादत्ते” इत्यत्रापि द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधा- न्यङ्गत्वम् । यत्तु वाक्यीयोऽयं विनियोग इति । तन्न । तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभि- धान्यङ्गं भवति तावलिङ्गादशनामात्राङ्गत्वमेव स्यात, "स्योनं ते सदनं कृणोमि इत्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपक्षे तु यावल्लिङ्गादशनामात्राङ्गत्वं भ- वति तावच्छरुत्या “ऐन्द्रया गार्हपत्यमुपतिष्ठते इत्यत्र तृतीयाश्रुत्या ऐन्द्रया ऋचो गार्हपत्योपस्थानाङ्गत्ववद् अवाभिधान्यां :विनियोगः क्रियते इति युक्तं मन्त्रस्या- श्वाभिधान्यङ्गत्वम् । तस्माच्छौत एवायं विनियोगः । "यदाहवनीये जुहोति" इत्याहवनीयस्य होमाग वं सप्तमीश्रुत्या । एवमन्येऽपि विभक्तिश्रुत्या वि. शिष्टं पयः परामृश्यापूर्वे विनियुञ्जता ऽपूर्व विनियुक्तं भवती- त्याशयः । विस्तरेण चापूर्वसाधनलक्षणोपपत्तिमग्रे वक्ष्यामः । इतिकरणस्याश्रुतित्वं द्वितीयायाश्च क्रियामात्रनिरूपितप्राधान्यबो- धकत्वमिति “इमामगृभ्णन्" इत्यस्य वाक्येन विनियोगः कैश्चिदभ्य- धायि, तन्निराकर्तुमाह इमामिति । यद्यपि नेतिकरणस्य श्रुति- वं तथाऽपि विशिष्टक्रियाया द्वितीयया बोध्यमानो विनियोगो विशेष्यांश इव विशेषणांशे ऽपि भवति श्रौत इत्याशयः । वि. शिष्टविनियोजकविभक्त्या विशेषणविनियोगस्य श्रौतत्वव्यवहारम- न्यत्राप्याइ यदेति । एवमिति । ज्ञाप्यते हि "मैत्रावरुणाय