पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनियोजकश्रुतिप्रमाणनिरूपणम् । १२९ हिषु प्रोक्षणं क्रियते तदा तैर्यागे अनुष्ठिते ऽपूर्व भवति नान्यथेति । अतः प्रकरणसहकृतया द्वि- तीयाश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं त- दङ्गत्वं प्रोक्षणस्योच्यत इति । एवं सर्वेष्वप्यङ्गेषु अ- पूर्वप्रयुक्तत्वं वेदितव्यम् । पूर्वयोः फलापूर्वसामग्रीवेशे तुल्ये ऽपि शास्त्रवशादाग्ने यापूर्वस्य फलोपधाने यथा प्रयाजापूर्वोपयोगव्यवहारः, तथा प्रकृते ब्रीही- णां फलोपधानं प्रोक्षणायत्तमिति शक्यं व्यवहर्तुम् । माऽस्तु वा द्विविधसाधनंतायामपि प्रोक्षणोपयोगः, अपूर्वसाधनताया उद्दे. इयतावच्छेदकत्वमहिम्नैव त्वपूर्वशेषत्वसिद्ध नर्थक्यमित्याशयः । नन्वपूर्वसाधनमात्रस्योद्देश्यतायां स्रुवसान्नाय्यादिष्यपि प्रोक्षणा- पत्तिः, व्रीहित्वस्यापि विवक्षणे युगपत्तिय विरोधो वाक्य- भेदो, यवेषु प्रोक्षणाप्राप्तिश्चेति शङ्कां निराकुर्वन्नुपसंहरति अतइति । यादृशप्रणाड्या यदपूर्व प्रति साधनत्वं "व्रीहिभिर्य- जत' इत्यत्र व्रीहित्वे कार्यसमवाय्यवगतं तादृशसाधनत्वस्यैव लक्ष- गतेति न सान्नाय्ये प्रसक्तिः, तस्यापून्तिरासाधनत्वात् , नापि नुवादौ तस्य प्रणाड्यन्तरेण साधनत्वात् । भवति च यवेषु प्रोक्षणप्रसक्तिः, तादृशसाधनत्वासचादित्यर्थः। ननु विनियुक्तान् ब्रीहीनुद्दिश्य विहितस्य भवत्वपूर्वार्थत्वं विनियुज्यमानविनियोक्ष्यमाणयोस्तु चमसाध्वर्युपयसोरुद्देशेन वि- धीयमानयोर्वरणदध्यानयनयोन तदर्थत्वम् , प्रागनवगतापूर्वसाधन त्वस्य लक्षायितुमशक्यत्वात् , अत आह एवमिति । वरणं तावद् 'वृतेश्चमसाध्वर्युभिरपूर्व कुर्याद्' इतिबोधयता वचनेन चमसाध्वर्युः वद् अपूर्वभावनान्वयितया बोधितं विनैव लक्षणया भवति तदर्थ- म्, दध्यानयनमपि “सा वैश्वदेव्यामिक्षा" इति सर्वनाम्ना संस्कारवि- .