पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१.२८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- आरुण्यस्यापि क्रयाङ्गत्वन्तृतीयाश्रुत्या । न चा. मृतस्य तस्य कथं क्रयाङ्गत्वमिति वाच्यम् । एकहा- यनीरूपद्रव्यपरिच्छेदद्धारा तदुपपत्तेः । "ब्रीहीन्प्रोक्षति"इत्यत्र प्रोक्षणस्य व्रीह्यङ्गत्वं द्वि- तीयाश्रुत्या । तच्च प्रोक्षणं न व्रीहिस्वरूपार्थम् , स्व- रूपे आनर्थक्यात, ब्रीहिस्वरूपस्य प्रोक्षणं विनाऽनु- पपत्यभावात, किं त्वपूर्वसाधनत्वप्रयुक्तम् , यदि व्री- रूप्य तद पेक्षं गुणविनियोगमाह आरुण्यस्यति । तृतीया. वगतवी हिविनियोगोपजीव नेन द्वितीयाश्रुत्या मोक्षणविनियोग इत्या ह बहीनिति । नन्वेब पोक्षणस्य न प्रकरणांक्रत्वङ्गत्वं सि- ध्यदित्याशक्य श्रुतिरेवेयं प्रकरणमहकृता तदङ्गत्वे पर्यवस्यतीति वक्तुमाह तच्चेति । आधानं प्रत्यग्नीनाभित्र प्रयोजनवां ब्राहीणां भवेत्प्रोक्षणं प्रति शेषत्वमत आह व्रीहिस्वरूपस्मेति । अग्निगताहवनीयाद्यलौकिकरूपस्य तु शास्त्रगम्योपायकत्वान त- वानर्थक्यमित्याशयः । भवतु तर्हि स्वगताङ्गादवशिष्टाकारेण ब्रीहीणां शेषित्वमित्याह किंत्विति । नाहवनीयादिरूपवत्- बीहिगतादृष्टरूपं प्रयोजनवत्त या शास्त्रान्तरादवगतं यत्तदाका- रेण ब्रीदयः शेषितां भजेयुः । अतः प्रकृतशास्त्रान्तरावगतमपूर्व- साधनरूपं त्रीहिपदे लक्ष्यते । तद्रूपशेषत्वेन श्रुया प्रोक्षणं वि. नियुज्यत इत्याह अपूर्वेति । ननु न स्वरूपयोग्यतात्मिकायाँ साधनतायां प्रोक्षणोपयोगः, तस्या लौकिकबीहिष्वपि सश्चात, नापि फलोपधानात्मिकायां ब्रीहिमोक्षणयोरुभयोरपि दण्डचक्रव. सामान्यन्तःप्रवेशे तुल्ये ऽन्यतरफलोपधाने ऽन्यतरप्रयोज्यता- का वक्तुमशक्यत्वादत आह यदिहीति । आमेयमयाजा.