पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनियोगविधिः । वाच्यम् । तस्य विशसनात् । अबदीयमानत्वाच्च हृ- दयादीनाम् । अवदीयमानं हि हविः, यथा पुरोडाशा- दि । “मध्यात्पूर्वार्दोच्चावद्यति" इति वाक्याद् । हृदयादी- नि चावदीयमानानि न पशुः, “हृदयस्याग्रेऽवद्याति इति वाक्यात् । अतो हृदयादीन्येव हवींषि, पशुस्तु प्रकृति- द्रव्यम् । पात्नीवतयागे तु साक्षात्पशुरेवाङ्गम् । तस्य जीवत एव “पर्यग्निकृतं पानीवतमुत्सृजन्ति" इत्यु- त्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रकृति- द्रव्यमित्येव सिद्धम् । एवं ब्रीहयोऽपि प्रकृतिद्रव्यतया यागाङ्गं तृतीयाश्रुत्यति । 6 + .. भव इत्यर्थः । यदा “प्रशमावस्य बाहू", "श्येनमस्य वक्षः' दिशतिरस्य वंक्रयः" इत्याद्यविगुणपाशस्त्यश्येनाद्याकृतीयत्ताव नेनाविकलतत्तदुद्धरणपर्यन्तं विशसनमुपदिश्यमानं पशोः सा दङ्गत्वे व्यर्थ स्यादित्याशयः । भवतु तर्हि पशावसम्भवतो दे तासम्बन्ध स्थाविशेषेण सर्वतदवयवेष्ववतरणं तबाह अवदीयम नत्वादिति । प्रकृतिभूतपयोयागादतिदेशप्राप्त हविःसंस्कारक मवदानं हृदयादिषु निर्दिश्यमानं तेषां हविष्टुं गमयति भ क्षणमिव फलचमसस्य, तद्द्वारैव पशोः साधनतोपपत्तेर्नेतरेषां स धनत्वकल्पना युक्तेत्याशयः । इत्थं च सर्वपशुयागेषु प्रसक्तोत्सर्गा- पवादमाह पानीति । साक्षादेवेत्यन्वयः । इतिहेतौ । “पर्यग्नि- कृतम्" इतिवचसि विहितया क्लुप्तोपकारिकया पर्यग्निकरणान्ताङ्ग- रीत्या निराकाङ्क्षण "त्वाष्ट्रं पानीवतम्" इति यागविधिना जीवत एव पशोर्देवतोद्देशेनोत्सर्गविधानादिसर्थः । द्रव्यविनियोगं नि-