पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- श्रुतिः। यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्त्री । सा च विधा-विभक्तिरूपा, समाना- भिधानरूपा, एकपदरूपा चेति । तत्र विभक्तिश्रुत्याऽङ्गत्वम्, यथा “वीहिभिर्यजे- त"इति तृतीयाश्रुत्या वीहीणां यागाङ्गत्वम् । न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं वीही- णामङ्गत्वमिति वाच्यम् । पुगेडाशप्रकृतितयोपप- तेः । पशोरिख हृदयादिरूपहविष्प्रकृतितया यागा- ङ्गत्वम् । न च साक्षात्पशोरेवाङ्गत्वं किन्न स्यादिति नप्रस्तावे विनियोगे अभिधात्रीसाधारणलक्षणकथनं तन्नि शश्चासङ्गताविति शाम् । विधितांद्वनियोज्योपस्थापनेन विधि- सहकारित्वस्य तयोरपि तुल्यत्वात् । तत्त्वेनैव निरूपणीयतया तेषां प्रस्तुतत्वात्साधारणो ऽप्यभिधात्रीशब्दो ब्राह्मणपरिव्राजक- न्यायेन विशेषपरो वोध्यः । यस्यचेति । शेषिशेषत्वाभिमतयो- स्तत्तद्रूपेणोपस्थित योः सम्बन्धबोधो व्यवधानपनपेक्ष्य यच्छब्दज्ञा- नेन जन्यते सा विनियोकी । सम्बन्धश्चाङ्गत्वात्मना साधनत्वात्मना सम्बन्धात्मना वा प्रतीयतां न तद्विशेषो लक्षणे ऽपेक्ष्यते । तेन लट्ल- तृतीयाषष्ठीपदश्रुत्यादीनां सङ्ग्रहसिद्धिरित्याशयः । भवतून्पत्ति- शिष्टपुरोडाशसाधनत्वानुरोधेनोत्पन्नशिष्टस्य व्रीहिसाधनत्वस्य मा. णाडिकत्वम् । उत्पत्तिशिष्टं तु पशोः साधनत्वम् । अतस्तदनुरोधेन "हृदयस्याग्रे ऽवद्यति"इत्यादिवचःसु चोदकपातावदानप्रदेशत्वेन मध्यादिवदृदयादिविधानमुचितं न तस्य प्राणाडिकत्वमत- आह न च साक्षादिति । न विशसनविशिष्टस्य हेतुत्वसं-