पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- ६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- न वेदाजिज्ञासेति, तेन हेतुना धर्मत्वेनैव श्रौतस्मार्तसाधार- ण्येनेह शास्त्रे धर्मो विचारितो न वेदार्थत्वेनेत्यर्थः । यद्यपि वे. दाध्ययनानन्तर्यमेवाथशब्दार्थः भाष्यकारेण "तत्तु वेदाध्ययनं तस्मिन्दि सति साऽवकल्पते” इसादिना तथा व्याख्यातत्वात् तथापि न वेदार्थत्वेन जिज्ञास्यता चिकीर्षितविचारैकदेशहेतुत्वे- नापि तदानन्तर्याभिधानोपपत्तेः अन्यथाऽध्ययनविधिविहि- तस्वाध्यायाध्ययनानन्तर्याभिधाय्यथशब्दवशेन कृत्स्नवेदार्थ- | स्यापि जिज्ञास्यत्वानुपपत्तेः यथाहि वेदाध्ययनं वेदार्थविचार एव हेतुर्न स्मृत्यर्थविचारे एवमेकशाखाध्ययनमपि न शाखान्त- रायविचारे हेतुः । स्यादेतत् अर्थज्ञानोद्देशेनाध्ययनं विद- घताऽध्ययनविधिना विचारमन्तरेण तदयोगाद्विचारोऽध्यय- नेतिकर्तव्यतात्वेनाक्षिप्यते करणं च विचाररूपतिकर्तव्य- वानुष्ठापकमित्यध्ययनस्य विचारहेतुत्वं सिद्धान्तिनोच्यते । त. त्रैकशावास्थप्रयोगविध्यर्थनिर्णयस्य शाखान्तरीयाझ्वाक्यविचा- राधीनत्वात् “पुरोडाशं चतुर्धा करोति" "द्वयोः प्रणयन्ति" - । त्वमित्युक्तमिति । धर्मजिज्ञासितुमिच्छेदितीच्छाविषयेच्छाग्रहणन्तु जिज्ञासाद्वयाभिप्रायेण तथाहि प्रथमं तावद्धर्माधर्मों ज्ञातव्यावि- ति वृद्धभ्यः श्रुत्वा तज्ज्ञातुमिच्छन् स्वाध्यायाध्ययनविधिना तादयेन विहितमध्ययनमपि तेभ्य एवावधार्याधीते वेदम् । ततो. ऽव्युत्पन्नस्याधीतादपि घेदादर्थज्ञानानुदयात् किमनेनोच्यते इति पुनरन्यारशी जिज्ञासा जायते तद्वशेन च व्युत्पत्युपाये निगमनिरु- कव्याकरणादिश्रवणे यतते ततश्च पदार्थज्ञानाद्वाक्यार्थः प्रतीय- मानो म्यायानवधारणात्संशयितो भवति तनः पुनर्वाक्यार्थः विशेषजिज्ञासा सवति तदिदं पश्चातनं जिज्ञासाद्वयमभिप्रेत्याथा- वोधर्मजिज्ञासेत्युक्तं यथोकं भाग्यकारेण न जिज्ञासामात्राभिप्राये. बेदमुच्यते किन्तु ताहीधर्मजिज्ञासामधिकृत्याथशब्दं प्रयुकवा. नाचार्य या वेदाध्ययनमन्तरेण न सम्भवतीति।