पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमसूत्रार्थकथनम् । णा अथातोधर्मजिज्ञासा”(१)इत्यादिना द्वादशस्वध्या आदिरुपक्रमः । हेतौ तृतीया। धर्मोविचारित इति । विव. क्षितप्रकारको निर्देशः धर्मजिज्ञासेत्येवोपक्रमः कृतो जैमिनिना सन्देहानुत्पत्त्या ब्रह्ममीमांसाया एवानवसरप्रसङ्गः स्यात् अतस्तत्सा. धारणवेदाध्ययनमावश्यकम् । नच कर्मकाण्डमात्रमेवाध्यतव्यमिति वैशेषिकोविधिः कश्चन दृश्यते स्वाध्यायध्ययनविधे स्तद्विधायः कत्वस्यावश्याभ्युपेयत्वे नैकदेशमात्रमध्यतुं शक्यते इति तत्साधा. रणाध्ययनमेव कर्तव्यमिति ध्येयम् ।। (१) अथ-गुरुकुलस्थितिपूर्वकं वेदाध्ययनातनन्तरं अतो यतः अध्ययनस्यार्थज्ञानं फलमतः धर्मस्य वक्ष्यमाणलक्षणस्य जि. ज्ञासा ज्ञानेच्छा कर्तव्येतिशेषः। अत्र च धर्मजिज्ञासापदं न विचारल- क्षकं "धर्म जिज्ञासितुमिच्छेत् तस्माद्धर्मोजिशासितव्य' इत्यादि भाष्ये "सम्बन्धं क्रिपयोर्वेष बने शास्त्राञ्च ते पृथक्” इत्यादि- वार्त्तिके तयाख्यार्थे च न्यायरत्नाकरे' अध्ययनजिज्ञासाकि- ययोः सम्बन्धमथशब्दो ब्रूते तेच शास्त्रादत्यन्तभिन्ने नहि जिज्ञा. साशब्दो मीमांसापर्याय" इति श्रौतार्थपरत्वस्यैवोक्तः । तथा । आनन्तर्यवचोव्यक्तिराश्रितैवात्रगम्यते” इति वार्तिके अथ शब्द- आनन्तर्यार्थी नाधिकारार्थ इत्युक्तं जिज्ञासापदस्य च विचारल क्षकत्वेऽधिकारार्थताऽप्यविरुद्धति । तृतीयाध्यायेऽप्युक्त” प्रथमा- ध्यायप्रथमसुत्रे हि धर्मज्ञानेच्छाया वक्ष्यमाणव्याख्ययत्वेनानुप- न्यासादनन्तरानुष्ठेयमात्रमेवोपदेष्टव्यमित्यधिकारार्थत्वं नोक्तम् । इह त्वध्यायरूपं वा तदर्थात्मकमेव वा । व्याख्येयमधिकर्तु हि श. क्यते शेषलक्षण" मितिग्रन्थयोराद्ये प्रथमसूत्रे विचारानुपादा: नादधिकारार्थताऽथशब्दस्य नास्तीत्युक्तं, द्वितीयग्रन्थे तु तृतीया- ध्यायाधसूत्रे विचारोपादानाधिकारार्थतेत्युक्तम् । ब्रह्ममीमां- सायामपि अथातोब्रह्मजिज्ञासेति सूत्रे वाचस्पतिमिधैः जिज्ञासा | सन्दिग्धे वस्तुनि निर्णयाय भवति निर्णयश्च विचारसाध्य इति विचारकर्तव्यताऽर्थाद्गम्यते . इति न जिज्ञासापदस्य विचारलक्षक. . . . .