पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वेदार्थपरत्वं धर्मशब्दस्य । किञ्च यथाश्रुतार्थ परित्यज्याश्रुतार्थ- कल्पनं हि अनुपपत्या कया चित् वक्तव्यम् । नच प्रकृते काचिद. नुपपत्तिः अधर्मस्यापि धर्मे विचारिते स एवोपादेय इति च विज्ञाते परिहार्यत्वमर्थाद्गम्यते इति न तत्पृथक् वक्तव्यं भवति । यच्च कारणमुच्यते अथशब्देन वेदाध्ययनानन्तर्यमुक्तामिति तदपि विचारणीयम् । नहि यावत्योवेदशाखाः तासां सर्वासामध्ययन मेकेन पुरुषेण कर्तुं शक्यमसम्भवात् वेदानामनन्तत्वात् । नच साम्प्रतमुपलभ्यमानानामेव सर्वेषां वेदानामध्ययनमावश्यकमिति कुत्रापि स्मृतावुक्तं स्वशाखायामधीतायां तावतैव · कर्मानुष्ठानोप- | पत्तेः प्रतिपादितत्वात् एवञ्च यस्य यस्य पुंसः कुलपरम्परया या या शाखा प्रचलिता:सैव सम्पूर्णतयाऽध्येतच्या तत्तच्छाखीयैः, तावतै- | वेष्टसिद्धेः । नच तथापि धर्मविचारमात्रस्यैव कर्तव्यत्वे तत्र केवलं कर्मकाण्डाध्ययनमात्रमेवापेक्षितमिति वेदान्तसाधारणाध्ययनं नि. प्रयोजनं स्यादिति तत्सार्थक्याय धर्मशब्दस्य वेदार्थे लक्षणा- ऽभ्युषगन्तव्येति. वाच्यम् । भवदुक्तरीत्या धर्मशब्देन वेदार्थमात्रं विवक्षित्वा . धर्मब्रह्मोभयसाधारणवेदार्थमात्रस्यैव विचार्यत्वप्रति- ज्ञायामङ्गीकृतायांमग्रेतनसूत्रजातेन कुत्रापि उपनिषद्वाक्यान्यु- दाहृत्य विचारस्याकृतत्वेन सूत्रकारः स्वोक्तं विस्मृत्य धर्ममात्रं विचारयामासेति कल्पितं स्यात् नहि द्वादशाध्यायीं प्रणीयावाश ष्टानामपि वाक्यानां निर्णयं कर्तुं सङ्कर्षकाण्डमपि चतुरध्यायीरूपं प्रणीतवतः सूत्रकारस्य जैमिनेरुपनिषद्वाक्यविचारे विस्मरणं वा विघ्नजातं वा समभवदित्युत्प्रेक्षितुं शक्यते । न चाम्नायस्य क्रिया- र्थत्वादित्यादिना वेदान्तवाक्यानामपि आनर्थक्यं पूर्वपक्षीकृत्य विधिनात्वित्यादिसिद्धान्तसूत्रेण विध्येकवाक्यत्वेन प्रामाण्योप. पादनात् कृत एव विचारइति साम्प्रतम् । तस्य विधिसन्निहि तार्थवादविषयत्वात् उपनिषदां च विधिसन्निहितत्वाभावात् । प्रथ- माध्याये हि धर्मप्रमाणं निरूप्यते अत एवं भाष्यकारेणोक्तं "सम. स्तमध्यायं प्रमाणलक्षणमाचक्षत" इति । उपनिषदाञ्च धर्मप्रमाण- स्वाभावेन तद्विचारे प्रथमाध्यायासङ्गतिः स्यात् . अतोनात्रोपनिष- द्विचार नहि ब्रह्मविचारे केवलमध्ययनमात्रानन्तर्य तत्र साधना चतुष्टयसम्पत्ते कारणत्वात् धर्मविचारे तु घेदाध्ययनमात्रस्यैव कारणत्वात् । किमर्थ तर्हि कृत्स्नस्वशाखाध्ययनमिति चेच्छृणु 1 ब्रह्मणः केवलवेदगम्यत्वेन वेदाध्ययनामावे तदर्थग्रहणायोगेनाः तत्र