पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शास्त्रीयविषयादिकथनम् । इह खलु परमकारुणिकेन भगवता जैमिन्य॒षि- गुणाश्च तैः संपन्नस्तम् । कथं ताश गुणवत्तालाभोऽभूदित्यत आह अनन्तभजनेति । अनन्तस्य परमात्मनो भजनं सेवनं त. देव प्रियं कामनाविषयो यस्य तम्। ततश्च भजनमाहिम्नैव तल्लाभ इत्याशयः । गुरुदेवतैक्यचिन्तनद्योतनायाह । आनन्दति । आ- नन्दो विष्णुः "आनन्दो नन्दनो नन्द" इति विष्णुसहस्रनामसु पाठात् । यद्वा ऽमुना पदेन गुणवत्तोपपादनाय- विष्णावभेदे निर्दि- टे तदुपपत्तयेऽनन्तभजनेति । अनन्तभजना विष्णुभकाः तेषां प्रियम् । न हि विष्णुभक्ता विष्णुभिन्ने प्रियबुद्धिं कुर्युरित्याशयः॥२॥ यज्जैमिनिमणीतद्वादशलक्षण्यात्मकशास्त्रीयविषयादि त. देवेहापि ग्रन्थे इति सूचनाय शास्त्रीयं विषयादि दर्शयन्वेदा- र्थत्वेन धर्मो जिज्ञास्यो न धर्मत्वेन प्रथमसूत्रस्थायशब्देन वेदाध्य- यनस्य जिज्ञासाहेतुत्वोक्तरिति(१)मतं निराकरोति । इहेति । ऽसाङ्गत्यप्रसङ्गात् प्रत्यभिवादनं हि तादृशं भवति आभवादनं च सर्वत्र महत्कर्तृकाशीर्वादप्राप्तिमुहिश्यैव क्रियते इति भवति आशीर्वचनफल कमिति ध्येयम् ।। (१) अयं भावः अथातोधर्मजिज्ञासेत्यत्रत्याथशब्दस्य हि सरस्नवेदाध्ययनानन्तर्यमेवार्थो घाच्यः यतः स्वाध्यायोऽध्येतव्य इति विधिना कृत्स्नायाः स्वशाखाया अध्ययनं कर्तव्यत्वेन विहि- तम् । पवश कृत्स्नां स्वशाखामधीत्य किमिति वेदार्थैकदेशधर्म- विचार एव पुरुषः प्रवय॑ति । किञ्च धर्मशब्दस्यापि अधर्मसा- धारण्याय वेदार्थपरत्वं वक्तव्यमेवेतरथा ऽधर्मस्य परिहार्यत्वं न स्यात् इति केचिद्यद्यपि वदन्ति तथापि न तद्युक्तं यदि वेदार्थ एव जिज्ञास्वतया विवक्षितः स्यात्सूत्रकृतः किमिति वेदाजिशासेत्येव म सुत्रयाशकार धर्मजिज्ञासेतिविहाय, वेदार्थत्वव्याप्यधर्मावच्छिन्ने खोदनाधिहिते कर्मण्येव प्रसिद्धस्य धर्मशब्दस्य प्रयोगात् न -