पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- अनन्तगुणसम्पन्नमनन्तमजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २ ॥ - "या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु" इति प्रार्थयन्तं प्रहादं प्रति भगवतोक्तं- "भक्तिर्मयि तवास्त्येव भूयोप्येवं भविष्यति"(विष्णुपुराणे) इति । तद्वन्तो भक्ताः तेषु वत्सलः "वत्सांसाभ्यां कामबल"इति वत्स- पदान्मत्वर्थीयो लच ततश्च स्नेहवानित्यर्थः । अन्यत्र स्नेहवाचित्वे नादृष्ट्यपि वत्सशब्दो लजन्तवृत्तौ स्नेहमभिधत्ते तथा प्रतीतेः- त्रान्तर्गतकामशब्दस्य व्याख्यातृभिस्तादाङ्गीकरणाच, यश्च यदीयस्नेहविषयः सन् दुःखित्वेन तद्बुद्धिस्थो भवति स तदीयक- पाविषय इति भक्तानां पूर्णकृपाविषयत्वं द्योत्यते । यद्वा का- मशब्दो लोके इच्छासामान्यवाचितया प्रसिद्ध इति सूत्रे निरुप- पिपरदुःखहानेच्छात्मककृपावाचित्वेनैवाभ्युपेयः । ततश्च शब्दश- सौर तेषां तद्विषयत्वलाभः । यद्यपि वदिरभिवादनस्तुत्यो- चिकस्तथापि प्रणतिविशेषपूर्वकाशीर्वचनात्मनोऽभिवादनस्य (१प्रकृतेऽसम्भवात् स्तुतिपरतया व्याख्येयः । ___अनन्तरूपिणमिति अनन्तसंज्ञमित्यर्थः । संज्ञाया अर्था- नुसारितामाह अनन्तगुणेति । अनन्तस्य गुणाः अनन्ताश्च से Home स (१) प्रणतिविशेषः पूर्वः प्रथमो यस्य एवंविधं यदाशीर्वचन सदात्मकस्येत्यर्थः यस्मिन् प्रणतिविशेषे कृते उत्तरकालमभिवादनयो- म्येनाशीर्वचनं प्रयुज्यते स एव प्रणतिविशेषोऽभिवादनम् तथा- चाशीर्वचनफलकप्रणतिविशेषरूपस्य प्रकृतेऽभिवादनस्याऽसम्भ- वात् स्तुतिपरतया व्याख्येय इत्यर्थः । यथा श्रुते ऽभिवादन- स्थावरकर्तृकस्य प्रणतिविशेषरूपस्याऽशीर्वचनात्मकत्वासम्भवेना-