श्रीगणेशाय नमः । मीमांसान्यायप्रकाशः। भाटालङ्कारटीकासहितः। यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥१॥ दध्नो मन्थनकाम्यया ब्रजवधू कुम्भे तदासिञ्चती सस्नेह दधि देहि मह्यमधुनेत्यूचे रमेशोऽथ याम् ।। अमित्युक्तिपुरःसरं निजकरे तस्यापणं कुर्वतीं .. प्रत्युक्तिः कुरु कार्यमस्तु शमिति श्रीशस्य सा पातु नः ॥ १ ॥ अनल्पजल्पोत्थितदोषदुष्टां पुनः पुनस्तद्रचनेऽतिहृष्टाम् ।। श्रीस्वामिसातगिरि धुनद्यां निजां गिरं सम्प्रति मज्जयामः ॥२॥ आचारानुमितश्रुत्या मङ्गलफलत्वेनावगतं विघ्नध्वंसाधन्य- तरदुद्दिश्य कृतं मङ्गलं शिष्यशिक्षायै निवघ्नाति श्लोकाभ्यां यदिति । मात्रशब्दः कायवाची "मात्रं कात्स्न्येऽवधारणे" इत्यमरोक्तेः । यावन्तो यदीयाः कृपालेशाः पुरुषार्थप्राप्तिहेतु- भूताः तत्फलोपहिता इति यावत् । ननु सर्वेपि धर्मादिचतुष्ट- यार्थिनः ते च यदि- कृपाले शविषयतां गताः तदा निर्विषय. सम्पूर्ण कृपाया अप्रसिद्धौ तल्लेशानां पुरुषार्थप्रापकत्वोक्तरसङ्ग- तिरिति आशक्योक्तं भक्तेति । भक्तिः परमेश्वरे निरुपधिः प्रीतिः तथा च-
पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१०
दिखावट