पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनियोगविधिः । १२३ सत्यम् । श्रूयमाणा ताबद् द्वितीया ऽाक्षितसाध्य- खानुवादः । होमस्य हि करणत्वेनान्वयात, असाधितस्य च करणत्वानुपपत्तेः, तस्याश्चानन्वयोपस्थितौ सा “स- कून् जुहोति इतिवत् तृतीयार्थ लक्षयति-'अग्निहोत्रे- ण होमेनष्टं भावयेद्'इतीत्युक्तं पार्थसारथिमिश्रः । अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो नानुपपन्नः । तत्सिद्धम्-‘उत्पत्तिविधौ कर्म करणत्वे- नान्वति इति । अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । यथा “दना जुहोति इति । स हि तृतीयाप्रति- लिङभिहितसिद्धावस्थसाधनतान्वयिनो धात्वर्थस्यासिद्धावस्थकार- कान्वायना नामार्थेन न भवत्यभेदप्रत्यभिज्ञा, भवति तूभयोरेकरूप- कारकान्वये सेत्याशयः । परमते तृतीयान्तानामिव द्वितीयान्ताना. मपि अन्वयो ऽनुपपन्नः, तदरं द्वितीयान्तेष्पवानुपपत्तिस्वीकरणपि- त्याशयेनाह सत्यमिति । वक्ष्यमाणलक्षणतः प्राक् तदुपयो- गिशक्यार्थप्रतीतिरुपपद्यते इति द्योतनार्यस्तावच्छब्दः । अङ्गति- भावप्रधानो निर्देशः । यद्गतमङ्गत्वं यो बोधयति स तस्य विनियोग- विधिरित्यर्थः। अङ्गत्वं च पारायवाचिलिङनादिसभाभिव्याहा- रात् तत्त्वेन बोधयतु तृतीयादिसमभिव्याहारात्साधनतादिसम्ब- धज्ञापनमुखेन वा नात्र भेद इति कथनाय सम्बन्धः । ननु तृती. ययैव सम्बन्धप्रतीतिसिद्धेः किं विधिनाऽत आह सहीति । न तृतीयादिविभक्तीनामङ्गले स्वातन्त्र्यं सत्यामपि तृतीयायां पयाजशेषांदेहविरभिघारणादौ शेषत्वाभावात् , असत्यापि त-