पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते-दना होम भावयेद्'इति । एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यारूपाणि। एतत्सहकृतेन विधिनाऽङ्गत्वं परोद्देशप्रवृत्तकृतिव्या स्यां सक्तूनां होमशेषत्वात् । भवति हि प्रधानभूतविध्यनपेक्षित त्वाच्छक्यार्थेष्वपि तात्पर्यवाधः, सिध्यति चाशक्यार्थेष्वपि त. दपेक्षितेषु तात्पर्यम् अतस्तृतीयया प्रतिपन्ने ऽपि साधनत्वे विध्यः वयो ऽपेक्ष्यत इत्यर्थः । नचैवं विधिनैव योग्यताद्यालोचनसह कृते. न विनियोगसिद्धविभक्ती नामकिञ्चित्करत्वमिति शङ्काम् । पदयोः समभिव्याहारे फलवत्वादिना नैकत्र शेषत्वमवधारयितुं शक्यम्, तत्र विभक्तरेव विनिगमकत्वात् । यथा "मैत्रावरुणाय दण्डं ददाति" इत्यत्र । अस्ति यत्रोभयोर्दण्डमैत्रावरुणयोः प्रयोजनबत्वम् । अस्ति चै- तदन्यतरार्थत्वे दृष्टप्रयोजनलाभः । चतुर्थीसामर्थ्यात्तु द्वितीयाप्राप्तमपि दण्डप्राधान्यं परित्यज्य मैत्रावरुणस्यैव तदाश्रीयते । ननु किमेतदङ्गत्वं अविनाभावनिरूपकत्वं वा प्रयोज्यत्वं वा अधिकपरिमाणत्वं वा विध्यन्तविहितत्वं वा उपकारकत्वं वा पारार्थ्य वा ? | नाद्यः ! आग्नेयादीनां मिथोऽङ्गत्वापत्तेः । न द्वितीयः । पुरो- डाशकपाले तुषोपवापानङ्गत्वापत्तेः । न तृतीयः। कोटिहोमाङ्गाना- मनङ्गत्वापत्तेः । न चतुर्थः । विध्यादिविहितशाखाच्छेदनादीनाम- नङ्गत्वापत्तेः । न पञ्चमः । आधानाध्ययनयोः कर्माङ्गत्वापत्तेः । न षष्ठः । पारायं हि परोद्देशप्रवृत्तकृत्याश्रयत्वं वा स्यात् ता. दृश्कृतिकर्मत्वं वा ? । नाद्यः । यागादेरनङ्गत्वापत्तेः । न द्वितीयः । पुरुषस्थानगत्वापत्तेरत आह परोद्देशति । परोदेशपवृत्तत्वं परो-