पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। १२१ त्वेनैवान्वयः-होमेनेष्टं भावयेद'इति 'न तु होमं कुर्या- द्' इति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरा- न्वयायोगेनाधिकारवाक्यावगतफलसम्बन्धो न स्यात् । करणत्वेन त्वन्वये 'होमेनेष्टं भावयेत्', 'किं तद् इष्टम्' इत्याकाङ्क्षायां फलविशेषसम्बन्धो घटते । न च उत्पत्तिविधाविष्टवाचकपदाभावेन 'कर्मणा इष्टं भावयेद'इति कथं वाक्यार्थ इति वाच्यम् । विधि- श्रुतेरेवेष्टबोधकत्वात् । सा हि पुरुषार्थे पुरुष प्रवर्त्त- यन्ती कर्मणः फलसम्बन्धमात्रं बोधयति । तस्माद युक्तम् 'उत्पत्तिविधौ कर्म करणत्वेनान्वति इति । अत एव “उद्भिदा यजेत” इत्यादौ तृतीयान्त उद्भिच्छब्द उपपद्यते, 'उद्भिदा यागेन इष्टं भावयेद् इत्य- न्वयोपपत्तेः। तथासतीति । यदि सत्यपि विध्यनये भावनोत्पत्तिविधौ धात्वर्थ भाव्यतेन स्वीकुर्यात् , स्वीकुर्यात्तर्हि सत्यपि कामभेदेऽधिका- रवाक्यगताऽपि भावना समानपदश्रुत्या तमेव भाव्यत्वेन । भाव्य- स्य च भाव्यान्तराकासा या असत्वेन पदान्तरस्य स्वर्गकामादेः ष- ष्ठाद्यपूर्वपक्षन्यायेन कथंचिदन्वयः कल्प्येत ततश्च फलसम्बन्धो न सिद्धयेदित्याशयः । यद्यपि स्वर्गशब्दस्य प्रीतिवाचिन्वात्तस्या- शान्यत्र शेवत्वायोगाद् अग्निहोत्राधिकारवाक्ये समानपदोपात्त मपि धात्वर्थमुल्लय तस्या एव भाव्यत्वमित्युच्यते, तथाऽपि पशू- नां साधनत्वान्वयाहत्वादुद्भिवचने यागस्यैव भाव्यत्वेनान्वयः स्यात् । ततश्च तृतीयान्तोद्भिच्छब्दानन्वयप्रसङ्ग इत्याशयेनाह अत