पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- "अग्निहोत्रं जुहोति इति। उत्पत्तिविधौ च कर्मणः करण- शान्तरं वा शब्दान्तरं वा वलवद् विधेः कर्मोत्पत्तिपरतामापादयति । गुणसंज्ञाशब्दान्तराणि विधेरुतेजकविधया कर्मभेदममायां सा- हाय्यमाचरन्ति । एवं चाभ्यासपकरणान्तरयोरेभिर्यथासम्भवं कचित्सन्निपाते तयोरेव भेदकत्वम् , नेतेषाम् , असति प्रतिबन्धके साधनादवोत्तेजकानपेक्षात्कार्यसिद्धेः । अत एव प्रकरणान्तराधिकरणे समानप्रकरणस्थानामपर्या- पधातुनिष्पन्नानामाख्यातानामुदाहरणत्वमवादि सांप्रदायिकैः । “उद्भिदा यजेत पशुकामः' इत्यत्र संज्ञया कर्मभेदं स्वीकृत्याभ्यासोदा. हरणसंज्ञात्वेनाङ्गीकनानामपि समिदादीनां न भेदकत्वमाश्रितम् । "बारुण्या निष्कासेन तुषैश्चावभृथं यन्ति" इत्यत्र च सत्यपि भेदके गुणे प्रकरणान्तरमेव भेदकमिति सप्तमे व्यवहृतम् । अभ्यासप्र- करणान्तरयोः सन्निपाते तु प्रकरणान्तरमेव भेदकं प्रकृतकर्मावि- परिहत्तेः स्वरूपसत्या ९व सहायत्वाद, अनन्यपरतात्मकाभ्या- सस्य तु ज्ञातस्यैव विपक्षे आनर्थक्यप्रसञ्जनमुखेन भेदकत्वात् विश्कर्षात् । शब्दान्तरस्य गुणसंज्ञाभ्यां सन्निपाते तु तस्यैव भेदकत्वम् । धात्वर्थभेदमुखेन भावना भेदं प्रमापयतोस्तयोर्लोकम- सिद्धधात्वर्थभेदप्रामाण्यकुण्ठीभावे सति भावनाभेदमामाण्यस्य मुक्रायसम्भवात् । अत एवोक्तशब्दान्तरोदाहरणस्थले सतोरामि- सवाजिनसमानयोगक्षेमयोरपि सोमहिरण्ययोन भेदकत्वव्यवहारः। गुणसंझ्योश्च सन्निपाते संज्ञाया एव भेदकत्वं गुणस्य वाक्यभे- दाबालोचनसापेक्षत्वात् संज्ञायाः स्वभावत एव भेदकत्वात् । सं- रूपायास्तु भिन्न स्थानतया न केनचित्सन्निपात इत्यलमति- विस्तरेण । .... केचिदुत्पत्तिमात्रपरे विधौ फलपदाश्रयणादात्वर्थस्यैव भा. सालेवान्वय, मन्यन्ते. तान्प्रत्याह . उत्पत्तिविधाविति ।