पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। ११९ रोधेन निर्णयौचित्यात् । यत्रापि "वसन्ताय कपिल कानालभेत" इत्यादौ शुद्धद्रव्यान्विता संख्या विभक्त्योच्यते तत्राप्युक्तनीत्या- ऽतिदेशानुरोधेन प्रत्येकं देवतासम्बन्धमाश्रित्य तावत्सख्या यागाः कल्प्यन्त इति सपयैव भेदसिद्धिः । तदेवम् उक्तः षट्प- माणकः कर्मभेदः । एषां मानानामेकाविषयोपनिपाते ऽपि विरोधाभावान बला. बलान्वेषणं कार्यम् । एकस्मिन्नपि ह्यामनहोमे प्रकृतयागप्रतियो- गिकभेदमामनहोमान्तरमतियोगिकभेदमातिदेशप्राप्तनारिष्टहोमप्रति- योगिकभेदं च ज्ञापयतां शब्दान्तरस ख्यागुणानां सम्भवति पामाण्यम् । एकत्रैकप्रतियोगिक भेदं बोधयतोरपि मानयोरे- कस्य प्रामाण्यमनधिगतार्थबोधकत्वेन नापरस्येत्येतावान्भेदः, न- तु विरोधः । बोधकत्वे तुल्ये सत्येकमेवानधिगतबोधकमित्यत्र किं विनि- ममकमिति चेत् शृणु । विधिरेव तावच्छ्रुत्या धात्वर्थभावनान्वि- तो ऽप्रवृत्तमवर्तनास्वभावात्तदुत्पतिपरः सन्कर्मभेदे मुख्यं प्रमा- णम् । तस्य तु कर्योत्पत्तेरन्यत्र शक्तिसंक्रमप्रयोजकपदान्तरस- मभिव्याहारः प्रकृतकर्मसंनिधिसहकृतो भवति कर्मभेदप्रमायां प्रतिबन्धकः । अत एव "दन्ना जुहोति” “सायं जुहोति" इत्यत्र न कर्मभेदः । दधिसायङ्कालावनियोगे संक्रान्तशक्तिकाभ्यां विधिभ्यां विशिष्टविधिगौरवभिया स्वपदे सनिधिमाप्तहोमतद्भावनानुवाद- ताया अभ्यनुज्ञानात् । तादृशपतिबन्धकाभावसम्पादनेन चाभ्या- सप्रकरणान्तरे कर्मभेदप्रमायां साहाय्यमाचरतः । तत्राप्यभ्यासो- दाहरणे विशेष्याभाव कृतो विशिष्टाभावः, प्रकरणान्तरोदाहरणे तु विशेषणाभावकृत इति विवेकः । सत्यपि विशिष्ट प्रतिबन्धके समभिव्याहतपदार्थगतं वाक्य- भेदापादकत्वं बलवद्विरोध्यवरुद्ध पूर्वकर्मणि निवेशानहत्वं वा सं-