पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- करणताभेदो न भावनामन्तरेण सम्भवतीतिशब्दान्तरविषये नि- र्दिष्टन्यायाद्भावनाभेदसिद्धिः । अत्रैवोत्पद्यमानानां होमानां क- रणताया अपि वक्तुं शक्यत्वात् । निरपेक्षोत्पन्नानां हि कर्मणां नाभिन्ना करणता फलवाक्येन वोधयितुं शक्यते । अत एवं षष्ठे 'अहर्गणे कस्मिाश्चिदइन्युद्गात्रपच्छेदे तन्मात्रस्य पुनःप्रयोगः साधननिवेशित्वाद्धर्माणां तन्मात्रस्य च साधनत्वाद्'इत्युक्तम् । तस्मान्न संख्याया भावनाभेदकत्वमिति चेत् । न, वेदे हि "वेदिरसि'इति त्रिर्वेदिं प्रोक्षति" इति कचिदभ्या- सार्थकसुच्चयोगेनैकस्यैव कर्मणो ऽभ्यासो विधेयतया प्रतीयते, कचिच्च “तिस्त्र आहुन जुहोति" इति कर्पत्रित्वम्, विधानगतविशेष स्य च प्रवृत्तिविशेषजननेनैव फलवत्त्वे वाच्ये प्रकृतवाक्ये होमा- नां प्रत्येककारणताङ्गीकारेण विना न तद् वक्तुं शक्यम् । मिलि. तानां करणते हि साधनरूपनिवेश्यामनमस्येतिमन्त्ररूपो धर्मः सकदेव प्रयोक्तव्यः स्यात् । बेदियोक्षणे ऽप्येकदेशन्यायेन स- कृदेव मन्त्रः प्रयुज्यते । प्रत्येकं करणत्वे तु साधनरूपभेदा- त्पधानभेदेन मन्त्रावृत्तिः सिध्यतीति कर्मत्रयविधेः प्रवृत्तिवि- शेषकत्वानुरोधेन करणताभेदे सिद्ध तशेन भावनाभेदो नि- र्दिष्टन्यायादेव सिद्धः । द्वितीये ऽपि वचसि गुणात् प्रकृतयागा- न्ययागोत्पत्तिपरतया ऽवधारिते तद्धितोत्तरविभक्त्या तद्धितोक्त- देवतासम्बन्धविशिष्टद्रव्यान्विततयोक्तबहुत्वसङ्ख्या तावदेवता- सम्बन्धानुपपत्त्या कल्प्यमानयागानामपि तावत्वं बोधयति । यद्यपि प्रातिपदिकार्थगतावशेष्यमात्रान्वायन्यपि संख्या विभक्त्या कचिदुच्यते दाविति; विशिष्टान्वयिना कचित् शु- क्लाविति, तथा ऽप्यातिदेशमाप्तायाः पशुगतैकत्वसंख्याया अबा- घाय प्रतिपशु यागभेदसिद्ध्यै विशिष्टान्वयितयैव संख्याभिधा- नं प्रकृते आश्रीयते, सन्दिग्धार्थे विधौ वाक्यशेषभूलातिदेशानु- .. .