पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। ११७ .. . ज्योतिष्टोमः" इत्यस्य शेषे “एकैकस्मै कामायान्ये यज्ञक्रतव आदि. मन्ते' इत्यस्मिन् श्रुतेन यज्ञक्रतुशब्देन विधेयज्योतिष्टोमभिन्नक्रतुप- स्थापनपरतया निर्णीतेन दर्शपूर्णमासविपरिहत्तेः । नच ज्यो. तिष्टोमस्य दर्शपूर्णमासयोश्च सर्वफलकत्वादेकै कस्मै कामायाहि पपाणत्वेन न तयोर्विपरिवृत्तिः किंत्वन्येषामेवेति शक्यम् । “आ- रब्धं वैदिकं कर्मावश्यं समापनीयम्" इति “यज्ञेन दानेन विवि- दिषन्ति" इति "वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये" इति च सर्वकर्मणामनेकफलत्वेन वाक्यशेषस्य निर्विषयतापत्तेः, स्तुतिमात्र- तात्पर्यकत्वे च इतरेषामिवानयोरपि विपरिवृत्त्यभङ्गादित्यादि स्वयमूह्यम् । यत्तु भवदेव एतद्विधिशेषस्थान्पशब्दोपात्तनिरूपकत्वेन त- योर्विपरिवृत्या प्रकरणान्तरविघटनमाह, तन्न । विधिगतदर्श पूर्ण मासपदेन यदुक्तं तद्भिन्नप्रतिपादनमर्थवादस्थेनान्यशब्देन कार्य यद्भिन्ने वान्यशब्देन प्रतिपाद्यं तद्विधिगतेन तेन पदेन वा- च्यामिति परस्पराश्रयात् । तदेवं सिद्धः प्रकरणान्तरप्रमापको भेदः सापवादः उक्तपञ्चमानान्यतरेणोत्पत्तिपरतया ऽवधारिते वचसि प्रतीता कर्मगता तत्कल्पकदेवतागता संबन्धगता वा संख्या धात्वर्थभेदद्वा- रेण भावनाभेदिका भवति । यथा सांग्रहणीष्टिं प्रकृत्य श्रुते “तिस्र आहुतीर्जुहोति" इत्यत्र, वाजपेयं प्रकृत्य श्रुते “सप्तदश प्राजा- पत्यान् पशुनालभते"इत्यत्र च । प्रथमवाक्ये तावच्छब्दान्तरेण प्रकृतयागात्मककर्मोल्पत्तिपरतयाऽवधारिते श्रुतत्रित्वसंख्यायाः पृथग्निवेशस्वाभाव्याद् धात्वर्थभेदं बोधयन्ती तन्मुखेन भा- वनामपि भिन्ना बोधयति । नन्वेकमातिपदिकोपाचानेकामीयोमविशिष्टदेवताकारकवदेक- धातूपात्तानेकहोमविशिष्टभावनातवपेच प्रत्ययेन वक्तुं युक्तम् । नच