पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः । कारतायाः साम्याच गृहमेधीयवद् वरुणप्रघामानामपूर्वत्वं स्यात् । नच तदभिमतं मिश्राणां साप्तमिकाधिकरणादौ "वारुण्या- निष्कासेन" इत्यादिवाक्यस्य प्रकरणान्तरात्प्रधानकर्मभूतयागान्त- रविधिपरत्वं निरूपितवताम् । नाप्यभिमतं न्यायसुधाकृतां प्रक- रणान्तराधिकरणे यजिशून्यत्वेनासनोपधिचोदनासशस्य तदा- क्यस्य तद्वदेव भावनान्तरविधायित्वमङ्गीकृत्य तुषनिष्काससं- स्कारार्थतया नाम्नोपस्थापितस्य सौमिकावभृथयागस्य विधा- नार्थत्वमुक्तवताम् । नच तन्मते संस्कारकर्मभूनावभूयात् प्राकृतोपकारलाभाना. पूर्वत्वमित्यपि शाम् । सागांशेन प्राकृतस्यैवोपकारस्य जनमात् तस्मिन्सत्येव सोमलितपतिपत्तेरिख तुषादिप्रतिपत्तेः सम्भवात् । सोमलिप्तलक्षण्येन तुषादिप्रतिपत्त्यङ्गीकारे अस्यावभृथयागस्य प्रधानकर्मत्वसमर्थनार्थैकादशाध्यायस्थाधिकरणविरोधात् । यो तु शातपथौ विधी उपन्यस्तौ तत्र यवाग्या वाग्ययस्य चोपा. देयत्वात्तद्विध्यर्थं प्रसिद्धहोमानुवादयोर्धात्योर्विशेषणीभूतावनिहो- शब्दो प्रसिद्धं होममुपस्थापयत इति नाश्चर्यम् । "मासमनिहोत्रं जुहोति" इत्यादौ तु विधिविशिष्टेन धातुना कर्तव्यत्वेनोपस्थाप्यमानस्य होमस्य नाग्रिहोत्रशब्दादुपस्थिति- |स्ताद्रूप्येणेति न तबलेनानुवाद्यत्वम् । नचैवं नामत्वानुपपत्तिः, तदर्थनामता हि तद्गतप्रवृत्तिनिमित्ता- चमममात्रेण भवति । तदनुवादवपयोजकतदर्थोपस्थापकता तु तस्यैव सम्भवति यस्तत्प्रकारेणैव तदर्थमुपस्थापयति, यथा हि 'बालं कृष्णं ध्यायेद्' इत्यत्र बालावस्थे नामत्वेन प्रवर्त्तमानो ऽपि कृष्णशब्दो न बालपदस्यानुवादत्वगापादयितुमलम् , बाल्या- वस्थानुपस्थापकत्वात्, तथाऽग्निहोत्रशब्दो होममुपस्थापयन्नपि न कर्तव्यतयोपस्थापयति इति नाख्यानमनुवादतां नेतुम लम् । यथा वा .