पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। ११३ नाम्ना सम्भवति पूर्वकर्मविपरिवृत्तिः वाक्यार्थबोधवेलायां च शाक्यं विधिपारतन्त्र्यमप्यनुभवितुमिति विपरिवर्त्तमानस्य तस्यैव कर्मणो ऽन्याङ्गत्वेन विधिरस्तु, कथमन्यथा गृह मेधीयप्रकरणा- म्नाते "आज्यभागौ यजति" इतिवचसि प्रसिद्धाज्यभागमत्यभि- ज्ञानम् । नहि तत्र तत्पत्यभिज्ञापकं वचोऽन्तरमस्ति । नापि चो. दकः प्रत्यभिज्ञापकः । चोदकलोपाङ्गीकारात् । तस्मादिह पदवे- लायर्या प्रत्यभिज्ञानं वाक्यवेलायां विधानमङ्गीकार्यम् तथा च बृहस्पतिसववाक्ये ऽपि द्वयसंभवः । नचैवं मासाग्निहोत्रवाक्येऽपि कर्मान्तराभावापत्तिः । इष्टाप- तेः । दृश्यते हि शतपथ-दर्शपूर्णमासप्रकरणे गृहमेधीयप्रकरणे च समाम्नाते “यवाग्वैतां राविमग्निहोत्रं जुहोति"इति वाक्ये, अश्वमेधप्रकरणाम्नाते च "वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोति" इतिवाक्ये, अग्निहोत्रशब्दस्य प्रत्यभिज्ञापकत्वम् । एतेन पूर्वापरीभूततया धातुना प्रतीतस्य न नाम्चा प्र- त्यभिज्ञति निरस्तम् । धात्वर्थोपस्थापकत्वाभावे ऽग्निहोत्रशब्दस्य तन्नामत्वानुपपत्तेश्च । विधिश्च प्रसिद्धबृहस्पतिसवादेरेव नाजपे- याङ्गत्वेन पुनर्विधिसंभवात् भेदाभेदोदासीनः सन्नाम्नः प्रसि- दार्थतायां च विशेषतस्तत्परतन्त्रोऽनुमन्यतैव कर्मा भेदम् ! प्रकरणा- न्तरस्य भेदकत्वं तु भावनायामुपपन्नम् । या तु “उक्तं क्रियाभिधानं तच्छुतावन्यत्र विधिप्रदेशः स्याद्" (पू० मी० अ० ७ पा० ३ ० १) इत्युक्तिः सो नित्याग्निहोत्रप्रकरणे ऽग्निहोत्रपदस्य निमित्ताभिव्यक्ति मासाग्निहोत्रवचसि च तदनभिव्यक्तिमभिप्रेत्य व्याख्येया । तस्याग्निहोत्रशब्दस्यान्यत्र श्रुती येन विधिना कर्मणि दृष्टपत्तिको अग्निहोत्रशब्दस्तेनैव विधिना ऽन्यत्र प्रदेशे ऽपि तत्प्रवृत्तिई. पति, तस्मान्न बृहस्पतिवादेर्भद इति ।