पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तदर्थस्यानुपादेयत्वमपेक्ष्यते, अस्ति च प्रकृते तदुभयम् , मासस्यानुः पादेयत्वात् अग्निहोत्रनाम्नश्चाख्यातपरतन्त्रत्वात् । यत्र तूपपदार्थ, उपादेयो भवति यथा “यदाहवनीये जुहोति" इत्यादावाहवनीया दिः । स हि स्वरूपेणाधानानिष्पन्नो ऽपि तत्तद्धोमकाले विहर: णादिव्यापारण तत्तद्धोमानुष्ठानयोग्यात्मना सम्पादनीय इस्यनेन विधिना ऽनुष्ठाप्यते तत्र तद्विवानावधित्वेन यज्जुहोतीत्येवमा- त्पार्थम्र्पयता धातुनैव दूरस्थहोमविपरिवृत्तन प्रकरणान्तरसम्भवः । यत्र वा नानो नोक्ताख्यातपारतन्ध्यं यथा “य इष्ट्या पशुना सोमेन यजेत सो मावास्यायां पौर्णमास्यां वा यजेत" इत्य- व यच्छब्दोपबद्धपूर्वाख्यातान्वयिनामिष्ट्यादिपदानाम् । तत्रापि तदुपस्थापितान्येव कर्माणि जघन्याख्यातपदान्तर्गतधातुना ऽनूध पर्वसम्बन्धविधानान्न तत्सम्भवः । एतेन "सायमग्निहोत्रीच्छेषणात्प्रमाद्येत पुनरग्निहोत्रं जु. हुयाद"इति बोधायनीयकर्मान्तमूत्र यद्भवस्वामिनोक्तं-हृयमान- मपि तेनैवाग्निहोत्रं स्यात् तस्मादप्रमादतात्पर्यकमेवेदमिति त- निरस्तम् । निमित्तवाक्यान्तर्गतविपरिवर्तमानाग्निहोत्रस्य संयो. गपृथक्त्वन्यायेनोक्तनिमित्ते कर्माङ्गवेनानुष्ठापनसम्भवात् । या तु शारीरके भामत्यां च "वेधाद्यर्थभेदाद"इत्यधिकरणे ( उ० मी०- अ०३ पा० ३ सू० २५) “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत"इ- त्यत्र संयोगपृथक्त्वन्यायेन प्रसिद्धबृहस्पतिसवस्य वाजपेयाङ्गत्वेन विध्युक्तिः सा धात्वर्थीभेदमभ्युपेत्योक्तिरिति व्याख्येया । व्या. ख्याता च तथा 'कल्पतरुकारेण-'नह्यस्य विधेः प्रसिद्धबृह पतिविधिसान्निध्यमस्ति, नवा तदुपस्थापकं किञ्चन वचाऽन्तर- पिहाम्नाये। नच बृहस्पतिसवनाम्नैव तदुपस्थितिः। अग्निहोत्रना. मद्विधिपरतन्त्रेण तेन भिन्नमसरतया दस्थकर्मोपस्थापना स्वादेवन्-पदजन्यपदार्थोपस्थितिवेलायां गृहीतसङ्गतिकम