पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। . श्रपणसिद्धिः । यागप्रयुक्तसान्नाय्योपजीवनेन तत्साहित्यं वि- दधाना विधि सन्नयन्तं प्रति तद्विवत्त इति न तेन विना असं- नयतो ऽनधिकारापत्तिः । दधिपयोभ्यां सहश्रपणस्य चोखायामेव सम्भवात् कपालनिवृत्तौ सहश्रपणे पिण्डासम्भवाच संयवनपेषणा- दिनिवृत्ती हविर्विनाशापादकत्वेन चात्र श्रपणनिवृत्तौ सम्भवति चरुत्वप्राप्तिः । असन्नयतश्च सत्यप्येन्द्राग्ने तण्डुलानामपि देवतान्तर- सम्बन्धे उभयेषां सहश्रपणस्य कर्त्तव्यत्वात्कपालसंख्याद्यानु- ग्रहासम्भवात् मुख्योपस्थिताष्टत्वसंख्याया एवानुग्राह्यत्वेन सं. भवत्यष्टाकपालत्वस्य नित्यवदनुवादः । इयांस्तु भेदः-सन्नयतो मध्यमाष्टाकपालेनाग्नेयमात्रानुष्ठानं चरुभ्यां तु तेन सह दधिपयोयागयोः, अमन्नयतस्तु त्रिभिः पुरोडाशैराग्नेयेन्द्राग्नयोस्त्रिभिः सहानुष्ठानं चरुत्वस्य च पाक्षिका- नुवादत्वं वाक्यभेदवदङ्गीक्रीयत इत्यलं पल्लवितेन । यथा च कर्मस्वरूपानुबन्धी द्रव्यादिगुणः पूर्वकर्मण्यनिविश- मानः कर्मभेदको भवति एवं प्रयोगानुबन्धी कधिकार्यादिः पूर्व- पयोग ऽनिविशमानः प्रयोगभेदको बोध्यः । अत एव "यदि ब्राह्मणो यजेत" इत्यत्र राजसूयान्तर्गतराजकर्तृ- कावेष्टिप्रयोगाद्भिन्नो ब्राह्मणकर्तृको वेष्टिप्रयोगो विधीयते "याव- ज्जीवमग्निहोत्र जुहुयाद्"इत्यत्रच काम्यपयोगाद्भिनो नित्यप्रयोगः। प्रकृतकर्माविपरिवृत्तिरूपं प्रकरणान्तरमपि प्रायो धात्वर्थ- भावनयोभंदकं भवति । सत्यां हि प्रकृतकर्मप्रत्याभज्ञायां तया कर्मणि प्रतिबद्ध शक्तिको विधिर्गुणे संक्रामति असत्यां तु तस्यां श्रुत्या कर्म विषयीकुर्वन् विहितविधानायोगात प्रकृतादस्मिन् भेदमाक्षिपतीति । यथा “मासमग्निहोत्रं जुहो. ति" इत्यत्र अविपरित्तिसंरक्षणायैव च सति नाम्नि तस्य भेदकत्वाभिमताख्यातपारतन्त्र्यं सति चोपपदे कथं चिद्विध्यन्वया: