पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। गुणानुरोधेन प्रधानयज्यावृत्तेरन्याय्यत्वम् । अमुनैव चाशयेन वाक्यभेदापादकगुणस्यैव कर्मभेदकत्वं व्यवहनमाकरे नोद्देश्य- स्थापि । देवतान्तरविधितः सम्भवत्प्राप्तिकस्यापि पूर्वदेवतापन- यस्य विधिमन्तरेण देवतान्तरविध्यपेक्षितायाः पूर्वयागक- र्तव्यताया उन्नयनासम्भवात् “आग्नेयमष्टाकपालं निपेढुक्कामः" इति वाक्ये द्रव्यदेवतयोरिव देवतापनयस्यापि न विधिवयर्थ्य शक्याम् । नचोत्तरवाक्येष्वेव यागविध्युन्नयनं शङ्काम् । वाक्यत्रये प्रत्येकं फलपदाध्याहारेण प्रयोगत्रयकल्पनेन चातिगौरवापत्तेः । ननु सत्यपि पूर्ववचसि देवतान्तरसम्बन्धाभावेनोपांशुयाजो लुप्यते तत्सर्वेषामपि लोपोऽस्तु,आस्तां वा कर्मान्तरविधिरित चेत् । न । यद्यप्युपांशुयाने देवतापनयविशिष्टकर्तव्यताबुद्धिः प्रथमोदिता. ऽपि तद्धविषो वाक्यान्तरे देवतान्तरसम्बन्धाविधानाद् विलीयते, तथाऽपि तादृशकर्तव्यताबुद्धः सम्भवति यागान्तरेषु सावकाशत्वम् । यदि तूत्तरवाक्येषु कौन्तरविधिमाश्रित्य केषामपि प्रकृतहविषां देवतान्तरसम्बन्धो नाश्रीयेत निर्विषयत्वमेव तदा तादृशबुद्धेराप- येतेति सैव कर्मान्तरकल्पनं प्रतिवनती देवतान्तरपरत्वमुत्त- रवचसामापादयतीति बोध्यम् । वस्तुतोऽपनीतपूर्वदेवताकयागकर्तव्यताबोधनाय प्रवृत्तो विधि- प्रकृतदेवतासम्बन्धं विना तद्वोधनासम्भवात् सामान्यत आक्षे- पोपस्थापिताप्रकृतदेवताविशिष्टकर्तव्यतां बोधयन् उपायुयाजस्या- प्रकृतदेवतासम्बन्धं कृतवानिति हविरन्तरवद् व्यवस्थिततत्सम्ब. धाभावे ऽपि विनिगमनाविरहेण तिस्रो ऽप्यप्रकृता उद्दिश्य तदनु- ष्ठानमुचितम् । स्वीकृतं चेत्यमेव । मनुः पुत्रेभ्यो दायं व्यभजतद् इतिवत् । उक्तवाक्यार्थवर्णनपक्षो ऽप्याकरः । यद्यपि च "अग्नये दात्रे इत्यत्र चतुथ्यौं भिन्ने अर्थे वर्तेते तथापि ते तद्धितवद्देवतात्वं शक्त्या वदतः, लक्षणया तु तत्प्रतिपाद्यत्वेन