पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- तण्डुलानामप्यन्तर्भावाच्च मध्यमादिपदान्वयिभिर्यच्छब्दैः संभव- ति तण्डुलपरामर्शः । अपगतहोतृवरणकविध्यन्तकर्त्तव्यताया(१). मिवापगतदेवताकयागकर्तव्यतायां च ज्ञाप्यमानायां न विक. ल्पापत्तिः । अपनीतपूर्वदेवताकानां कर्त्तव्यताया देवतान्तरसम्ब. न्धं विनाऽनुपपत्तेरगत्योत्तरवाक्येषु वाक्य भेदमुद्देश्योदापतित- मभ्युपेत्यापि देवताविधिराश्रीयते । नचोत्तरवाक्यसिद्धस्य म- ध्यमाद्यात्मना तण्डुलविभागस्य तण्डुलवाक्ये ऽनुवादमङ्गीकृत्य वाक्यभेदपरिहाराय कर्मान्तरविधिराश्रयितुं युक्तः । तथा सति फलीकृतैः तण्डलैरुपासीतेत्यस्य विधित्वकल्पनानिमित्तवाक्य भेदा पत्तेः । प्रयोगमध्ये विभागस्य नित्यवदनुष्ठानापाप्त्या विभागवा- क्ये विधित्वस्यावश्याभ्युपेयत्वात् द्रव्योद्दश्यत्वानिर्देशेन तात्पर्य- वृत्योद्देश्यतया विवक्षिताना प्रकृतयागानां प्रधानत्वेन तदनुरोधेना- प्राप्तप्य विधेयतया गुणभूतदेवताविधानार्थ विध्यावृत्तिलक्षणवा. क्यभेदस्यौचिसेन स्वीकार्यत्वात् । पञ्चशराववाक्ये तु विधेय. (१) दशमाध्याये प्राथमिकेऽधिकरणे महापितयश चोदकमा. सघरणं प्रति श्रुते "नार्षयं वृणीते न होतारम्" इति वाक्ये धि. चारः-नार्षयमित्यादौ नमः प्रतिषधार्थकत्वम् , उत पयुसिकत्वमिति । तत्र प्रधानसम्बन्धलाभात् वृणीते इत्याख्यातेन सम्बन्धन प्रति- षेधार्थकत्वमेव युक्तम् । अन्यथाऽप्रधानसम्बन्धः स्यात्स च नधु: पाधेरुपाधिर्भवतीत्यनभिमतोऽभियुक्तानाम् । इति प्राप्ते-उच्यते प्रतिषेधार्थकत्वेन आण्यासार्थेन सम्बन्धे 'धरणं म कुर्याद् इत्ययों भवति, तथा सति प्रत्यक्षश्रुतिधरणस्याकर्तव्यतां योदकश्च तस्य कर्त. व्यता बोधयन्ती परस्परप्राप्तस्यात्यन्तं बाधं कर्तुमशक्नुवन्ती पर. णतनिषेधौ विकल्पयतः। विकल्पस्य वाएदोषदुष्टतयाभ्याय्यत्वमिति पर्युदासत्वमेव युक्तम् । नञ्चोक्तदोषारप्रत्ययार्थादधतारितो धात्य: धन सम्बध्य तत्प्रतिपक्षं बोधयति तद्भिसमर्थमनाक्षण इत्यत्र प्राक्षण मिन्नमिष । तथा च वरणभिन्नमङ्गजातमनुष्यमित्यर्थसम्पस्या चोदक स्य घरेणातिदेशांशे प्रवृत्तिाप्यते । एवं वचोवको वरणम्यतिरिक्तम