पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः। १०५ - वाक्यभेदः । अभ्युपगम्यते ऽयमिति चेत् , न । यतः को ऽस्य वाक्य भेदस्य पञ्चशरावगत(१)वाक्य भेदाद्विशेषो यदयं न कर्मभेदक आस्ते । यत्तु दध्यधिकरणकचरुविशिष्टयागान्तरविधाने "सह थप- यति" इत्यस्यानर्थक्यात्तदर्थ वच्चाय स्वीक्रियमाणो वाक्यभेदो चेदा- नुमतत्वान्न दोषायेति । तत्तुच्छम् । दध्नोऽधिकरणतया प्रतीयमानच. (१) पू० मी० अ० ६ पा० ४ अधि० ९-। दर्शपूर्णमासप्रकरणे सायंप्रातःहातिक्रमप्रायश्चित्तत्वेन श्रुने “यस्योभयं हविरातिमार्छ दैन्द्रं पञ्चशरावमोदनं निवपेद्” इति पञ्चशरावयागे-किमस्य द. शें द्रव्यापचाराद् द्रव्यमन्तरेण यागानुत्पत्तेरवत्तनाशाधिकरणन्यायेन दर्शाङ्गतथा विधानम् उत हविरातिनिमित्तं कर्मान्तरमिति सन्देहे दोहप्रतिनिधित्वेनास्य विधानादङ्गत्वम् । लाघवं चैवं गुणमात्रवि. धानात् । अन्यथा प्रकृतहानाप्रकृतकलानादिदोषग्रासः । तदुक्तम्- आर्तत्वाद् द्रव्ययोरन्यकर्मणा द्रव्यमीपिसतम् ॥ लाघवं च विधेरेवमतो द्रव्यविधिभवेद् ॥ इति पूर्वपक्षे प्राप्ते “ऐन्द्र पञ्चशरावम्' इति द्रव्यदेवतारूपस्य प्रतीत्या कर्मान्तराविधेर्वायितुमशक्यत्वम् । नचोक्त कर्मणि गुणमा- प्रविधानं सम्भवति । तथा हि सति प्राप्तकर्मोइशेन पञ्चशरावपरिमा: णमोदनद्रव्यामन्द्रो देवतेत्याधनेकगुणविधी वाक्यभेदापत्तिः स्यात् । तदुक्तम्- प्राप्त कणि नानेको विधातुं शक्यते गुणः । इति । नच भवन्मत कर्मान्तराविधिस्वीकारेऽपि. अनेकगुणविधि- सत्त्वेनोक्तदोषो दुरि इति वाच्यम् । विशिष्टविधिस्वीकारात् । विशिष्टविधौ विशेषणविधेरार्थिकत्वेनादोषात् । तदुक्तम्- श्रोतव्यापारनानात्वे सम्भवत्यति गौरवम् ॥ एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति । अत एवोक्तम्- अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः । इति । एवंच यथा ऽत्रानेकगुणविधौ घाक्यभेदश्चोदित एवं प्रकृतेऽप्य. लेकगुणावधिसत्त्वेन वाक्यभेदो दुरुद्धर इति भावः । १४