पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रुगुणत्वमात्रयागेन दधिचरूभयविशिष्टयागान्तरविधाने वाक्य भेद- परिहारस्य तदर्थवत्त्वस्य च सम्भवात् । किञ्चास्य देवतान्तरयुक्तस्य प्रयोगस्य फलम् ? इति विवे. चनीयम् । न तावद्यावजीवबोधितद्वैतीयीकन्यायेन(१) जीवनस्य निमित्तत्वं सिद्धम्।षाष्ठन्यायेन(२)च पौर्णमास्यादेस्तबच्छेदकत्वे सिद्ध पर्वावच्छिन्नजीवनाभावे प्रारब्धप्रयोगस्य तदनुष्ठाप्यताया वक्तुमशक्यत्वात् । नापि “आरब्धं विहितं कर्मावश्यं समापनी- (१) इदं च द्वितीयस्य चतुर्थे प्रथमाधिकरणे । तत्र हि-"या. वजोवमग्निहोत्रं जुहोति" इत्यत्र यावजीवत्वं कर्मधर्म उत पुरु. रुषधर्म इति सन्देहः । तदर्थ च यावज्जोयशब्दस्य कालयोध. कता उत जीवनवाचिता, कालवाचित्धे कालस्य गुणान्तरविधिस- म्भव उत नेति विचारे प्रक्रान्ते 'देवरसेन यावजोवं दत्तं भुक्तम्' इत्यादौं मरणावधिक कालबोधकत्वेन तस्य अप्राप्तत्वाद् “वस. न्ते वसन्ते ज्योतिषा" इत्यादिवद्विधिसम्भवेन जुहोत्यनूदिते काम्या- ग्निहोत्रे कर्मणि कालविधिः । सति चैयं नित्यानिहायोधकया. क्यान्तराभावेन वाक्यान्तरविहितः काम्यप्रयोग एषकः पर्यवस्यति । स चोक्तविधेरावर्तनीयः । सत्प्रयोगस्य "अग्निहोत्रं जुहुयाद्" इत्यनेनैव सिद्धत्वेन कालविधिवैयापत्तिरन्यथा स्यात स्मात्कर्मधर्मविधिरिति प्राप्ते- उच्यते यावजीवशब्दस्य शक्त्या कृत्माजीवनबोधकत्वम् । काले तु लक्षणा । नच जीवनं कर्मधर्मत्वेन विधातुं शक्यते तस्य पुरुषध- मत्वात् । तं च निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते । शब्दान्तरादी- वां हेतूनामत्रासावात्कर्मभेदाभावात्प्रयोगभेद एव पर्यवसानं जीवनं च तत्र निमित्तमित्युक्तमिति सिद्धान्तः । (२) पू० मी० अ०६ पा० २ अ० ७ । "यावजीधमग्निहोत्रं तु. होति" इत्यादी जीवनस्य निमित्तत्तोपन्यासात्सति निमित्ते मैमित्तिक स्यावश्यंभावाजी तोऽनुष्ठानसातत्यम् । प्रधानलोपावरमङ्गलोप इति न्यायात् श्रुतानां सायमादिकालरूपाङ्गामा लोपो न दोषायेति प्राप्ते उ. च्यते सायमादिकालस्थानुपादेयत्वेन न विधिः समभवति । किन्तु काले स्वतः प्रान सात कर्मानुष्टतया विधीयते । कालस्य च निमित्तसंकोचक स्वनान्वयः । तथाचीनकालविशिष्टस्यैव जीसस्या निमित्वमिति