पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्पत्तिविधिः । धेयत्वेन वाक्यभेदापत्तेः । द्वितीये च न भक्षानुवादेन प्राथम्य- विधानम् एकप्रसरताभङ्गापत्तेः । नचैवं "दनेन्द्रियकामस्य जुहुयाद्' इत्यत्र प्राप्तहोमानुवादेन फलगुणसम्बन्धविधाने वाक्य भेदापत्तेः कर्मान्तरं स्यादिति श- यम् । इह गुणस्यैव फलादेशेन विधानाद् । उपपादितं चैतन्मूले। एतद पवादश्च रेवतीवाक्यगोचरो दर्शितः । नन्वेवमपि “यस्थ हविर्निरु पुरस्ताच्चन्द्रमा अभ्युदियात्स वेधा तण्डुलान् विभजेचे मध्यमास्तानग्नये दावे पुरोडाश- मष्टाकपालं निर्वपेत् ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्वरं ये क्षोदिष्ठास्तान्विष्णवे शिपिविष्टाय गते चरुम्" इति प्राप्तदर्शानुवा- देन मध्यमाद्य नेकगुणविधौ वाक्यभेदात्कर्मान्तरापत्तिः । स्यादेतत्। "त्रेधा तण्डुलान्" इत्यत्र न मध्यमादिरूपेण विभा- गो विधीयते अग्रिमविनियोगवशाद् एव नसिद्धः, किन्तु तण्डुल. ग्रहणेन प्रकृतं हविलक्षयित्वा विभजेदिति पूर्वदेवताभ्यो ऽपनी- यते। "ये मध्यमाः" इत्यादिवचोभिश्च तण्डुलद विषयसामपनीतपूर्वदे- वताकानां पूर्वयागान्वपिनां देवतान्तरसम्बन्धो विधीयते । दा- वादिशब्दानां च यौगिकानाम् अग्न्यादिशब्दसमानाधि- करणतया एकदेवताकारकप्रतिपादकत्वान्नानकदेवताविधिनिमि- तो दोषः । एतत्प्रकरणाम्नातेन “सह अपयति" इतिवचनेन सम्प- तिपन्नदेवताकयोः सहश्रपणविधानाच्च प्राप्तं दधिपयसोरधिक- रणत्वं चरुत्वं चानूयते तस्माद्वाक्यभेदप्रसङ्गाभावान्न कर्मान्त- रविधिरिति चेद् न । तण्डुलपदस्य हविर्मात्रलक्षकत्वं तावन्न सम्भवति चमसाधिकरणाविरोधापत्तेः(१) मध्यमादिसम्बद्धयच्छब्दै- (१) यथा पू० मी० अ० ३ पा० ७ अधि० १० चमसाध्वयूगां 'मध्यतः कारिणां चमसाध्वर्यवः' इत्यादिविशिष्टव्यपदेशात्प्रकृतेभ्यो ध्वर्युप्रमुखविभ्यो भिशत्वं सिद्धान्तितमेवमत्रापि मध्यमादिसमा. नाधिकरणयच्छब्देन व्यपदेशाद्विशिष्टहविष्परकत्वप्राप्तावपि तदुत्सृ.