पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽङ्कः । यदा एसा । ता वृॐ सिग्धं अभूकमाम । जाव अङ्गारओो रासेिं वेि अ अणुवङ्गं परिगमणं ण करेदि । राजा- अहो मदनस्य वैषम्यम् । मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्कनं सेवाम् । एवं हि प्रणयवती सा शक्यमुपेक्षितुं कुपिता ॥ २३ ॥ (इति निष्क्रान्तः सह वयस्येन । ) इति तृतीयोऽङ्कः । असन्ना तैषा । तस्माद्वयं शीघ्रमपक्रमामः । यावदङ्गारको राशिमिवानुवर्क प्रति गमनं न करोति । मन्थ इत्यादि । प्रियाहृतमना मालवेिकाहृतभमाः प्रणि पातलङ्कनं प्रणामातिक्रमं तस्या इरावत्याः सेवामनुकूलाचरणं मन्ये । सेवायाः फलमाह--कुपिता कुद्धा प्रणयवर्ती प्रेमवती सा इरावती एवमनेन क्रमेण प्रणि पातलङ्कन्नरूपेणोपेक्षितुमौदासीन्येन वर्तितुं शक्यं हेि शक्या खलु । शक्यमिति निपातः । अन्न बीजाजुसंधानादाक्षेपो नाम संध्यङ्गमुत्तं भवति । इदमनुसंधानमेवो त्तराङ्ककथोपयोगिखाद्विन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयबेमभूपनिरविते कुमारगिरिराजीथे मालविकादिमित्रव्याख्याने तृतीयोऽङ्कः ॥ ७