सामग्री पर जाएँ

पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मालविकाग्निमित्रे

(निन्ध्यन्ते) सूत्रधारः -- (नेपथ्यामिमुखमवलोक्य ।) मारिष, इतस्तावत् (प्रविसश्य ।) पारिपार्श्विकः -- भाव, अयमस्मि । सूत्रधारः -- अभिहितोऽस्मि विद्धत्परिषदा कालिदासग्रथितवखु मालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्स्वे प्रयोक्तव्यमिति । तदारभ्यतां संगीतम् । पारिपार्श्विकः -- मा तावत् । प्रथितयशसां भाससौमिल्लककविपुत्रादीनां प्रबन्धानतिक्त्रय् वर्तमांनकवेः कालिदासस्य कियायां कथं बहुमानः । सूत्रधारः -- अयि, विवेकग्रेस्तममिहितम् । पस्य ।

सर्वं जगल्लोकं बिन्नतोऽपि धारयतोऽपि यस्यामिमानः प्रणयो ममत्वं न भवति । एषु विशोषणेषु विरोधालंकरिणास्येश्वरस्य लोकातिशायित्वमुक्तं भवति । अत्र प्रण्तवहुफल एकैश्वर्यस्थित्या कान्तासंमिथणेन जगद्धरणेन ईश इत्यनेन च लोकोत्तरः कश्चिद्राजास्मिन्नाटके वर्ण्यत् इति सूच्यते । सन्मार्गालोकनायेत्यनेनत्र कश्चिन्मार्गामिनचः प्रतिपाद्यत इति सुच्यते । मार्गो नाम नट्यविशेषः । तथोक्तम् -- "मर्गोऽपि देशी तदेदः कथितो नाव्यकेदिमिः । अत्र मर्गो भवेत्राव्यं णव्यवेदोक्तलक्षणम् ॥" इति। एष नान्दीश्लोकः । नान्धादिलक्षणं तु शाकुन्तलव्याख्यान एवाभिहितम् । अत्र 'पदादिनियमोऽपि चा' इति विकल्मात्पदादिनियमाभावः ॥ अथ प्रस्तावनां विवक्षुस्तदङ्गयोः प्ररोचनासुखयोः प्ररोचनां प्रखौति -- नान्द्यन्ते सूत्रधार इत्यादिना । मारिष, इतखावत् । आगम्यतामिति शोषः । नटः सूत्रधरेण मारिष इति बाध्यः । 'सूत्री नटेन भावेति तेनासौ भारिषेति च" इत्युक्त्वात् ॥ परिपाश्व यथा मवति तथा वर्तत इति पारिपार्श्विकः । नट इत्यर्थः । 'परिसुखं च' इत्यत्र चकाराहक् ॥ आभिहितोऽस्मीत्यादि । विद्वत्परिषदा विदुषां विपश्वितां परिषत्समा तया । अनेन सभाप्रशंसा कृता । कालिदासप्रथितवस्तु कालिदासेन ग्रथितं वस्तु कथा यस्मिंखतथोक्तम् । मालविकाग्निमित्रम् । 'अढिकृत्य कृते ग्रन्थे' इत्यण् । यथा मालतीमाधवम् । वसन्तोत्सव इत्यनेन कालनिर्देशः कृतः । संगीतं तौर्यत्रिकम् । तथा चोक्तं संगीतन्नाकरे -- "नृत्तं गीतं तथा वाद्यं त्रयम् संगीतसुच्यते' इति । आरभ्यतां प्रयोक्तुं यन्नः कियताम् ॥ मा सवतं मा दवि निवारणे । मास कविपुत्र सौइमिल्लका कस्य प्राक्तना । प्रबन्भामपकाणि ॥