पृष्ठम्:मालविकाग्निमित्रम् - काटयवेमः - १९२४.djvu/६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रथमोऽङ्कः ।

पुराणसित्येव न सधु सर्वं न चापि काव्यं नवमित्यचघम् । सन्तः परीक्ष्यान्यतरद्भजन्ते मूढ्ः परप्रत्ययनेयनुद्धिः ॥२॥ पारिपार्श्विकः -- आर्यमिश्राः प्रमाणम् । सूत्रधारः -- तेन हि त्वरतां भवान् । षिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् । देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम् ॥३॥ (इति निक्रान्तौ ।)


प्रस्थावना । (ततः प्रविशति वकुलावलिका ।) वकुलावलिका -- अणत्तम्हि देवीए धारिणीए । अइरप्पउत्तोव

१, आज्ञसास्मि देव्या धारिण्या । अचिरप्रवृत्तोपदेशं छलिकं गाम गव्य

कवेःकियायां कृतौ रूपके । कथं बहुमान आदरातिशयः कथनमीक्ष्यते ॥ विवेकग्रस्तं विवेकदुर्बलम् । विवेकशून्यमित्यर्थः । कियाविशेषणां चैतत् । पुराणमित्यादिं । सर्वं काव्यं कवेः कर्म । कृतिरित्यर्थः । पुराणमित्येव पुराणत्वादेव साधु रम्यं न भवति । नवमिति च नवत्नादेव अवघं गर्ह्यं न भवति । किंतु सन्तो दिद्वांसः परीक्ष्य पुराणं नवं च काव्यं गुणतो दोषतश्च परामृश्य अन्यतरत्तयोरेकं पुराणं नवं वा । गुणथुक्तमित्यर्थः । भजन्ते । खीकुर्वन्तीत्यर्थः । मूढोऽज्ञ्स्तु परप्रत्ययनेयबुद्धिः परस्यान्यस्य प्रत्ययेन ज्ञानेन नेया प्राप्या वुद्धिर्यस्य स तथोक्तः । अनेन कविंकाव्यप्रशंसा कृता ॥ शिरसेत्यादि । शिरसा मूग्रां प्रथमग्ऱुहीतां पुर्वखीकृताम् । सिरसा घहणेन भत्तयतिशयो गम्यते । परिषदः समाया आज्ञां शासनं कर्तुं निर्वर्तयितुमिच्छाम्यमिलषामि । अत्रोपमामाह् -- घारिण्या देव्याः । धारिणी नाम कथानायकस्य पन्नी । तस्यआ आज्ञां सेवादक्षः परिचर्यानिपुणोऽयं पुरोवर्ता परिंजन इव । परिचारको जनः परिजनः । अनेन पात्राक्षेपहेतुः प्रयोगातिशयो नाम मुखाङ्गमुक्तं भवति ॥ प्रस्तवना ॥ कविरिदानीमङ्कमारममाणः कथोपयोगितया प्रथमं मिश्रविष्कम्मं नामार्थेपक्षेपकं प्रस्तौति--ततः प्रविशतीस्यादिना । आज्ञप्तास्मि देव्या धारिणया । अचिरप्रष्टतोपदेशं छलिकं नाम नाट्यमन्तरेण कीद्दशी मालकिकेति नाट्याचार्यमार्यगण्दासं प्रष्टुम् । तस्मात्तावत्सगीतशालां