पृष्ठम्:मालविकाग्निमित्रम्.djvu/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
बकुलावलिका। १उवदेसाणुरूवे चलणे लम्भिअ दाणिं
गव्विदा भविस्सं । रागं विलोक्य । आत्मगतम् । सिध्धं मे दौञ्चं । प्रकाशम् ।
सहि एकस्स दे चलणस्स अवसिदो राअणिख्खेवो ।
केवलं मुहमारुदो लम्भइदव्वो । अह वा पवादो एव्व
अअं पएसो।
राजा । सखे पश्य पश्य ।
आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम् ।
प्रतिपन्नः प्रथमतरः संप्रति सेवावकाशो मे ॥ १३ ॥
विदूषकः । २कुदो दे अणुसओ । चिरं भवदा एदं
अणुहोदव्वं अचिरेण ।
बकुलावलिका ।३अरुणसदपन्तं विअ सोहदि दे चलणो।
सव्वहा भाट्टिणो अङ्कपरिवट्टिणी होहि ।
इरावती । निपुणिकामुखमवेक्षते ।
राजा । ममेयमाशीः।
मालविका । ४हला अवचणीअं’ मन्तेसि ।
बकुलावलिका । ५मन्तिदव्वं एव्व मए मन्तिदं ।

१. उपदेशानुरूपौ चरणौ लब्ध्वेदानीं गर्विता भविष्यामि। सिध्दं मे दौत्यम् । सखि
एकस्य ते चरणस्यावसितो रागनिक्षेपः । केवलं मुखमारुतो लम्भयितव्यः । अथ
वा प्रवात एवाथं प्रदेशः ।
२. कुतस्तेनुशयः । चिरं भवतैतदनुभवितव्यमचिरेण ।
३. अरुणशतपन्त्रमिव शोभते ते चरणः । सर्वथा भर्तुरङ्कपरिवर्तिनी भव ।
४. हला अवचनीयं मन्त्रयसि ।
५. मन्त्रयितव्यमेव मया मन्त्रितम् ।

3. A B C एक्कस्स.
5. B पवेसो (पदेसो ?).
7. F वीजयतः
10. Our MSS. कमेण (=क्रमेण) for
अचिरेण.” We according
to G.