पृष्ठम्:मालविकाग्निमित्रम्.djvu/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
॥ तृतोयोङ्कः ॥
बकुलावलिका। १किं विआरेसि । उस्सुआ ख्खु इमस्स तवणीआसोअस्स
कुसुमसमुग्गमे देवी ।
राजा । कथमशोकदोहदनिमित्तोयमारम्भः ।
विदूषकः। २किं खु ण जाणासि अकालणादो देवी इमं ।
अन्तेउरणेवथ्थेण ण संजोअइसदित्ति ।
मालविका । पादमुपहरति । ३हला मरिसेहि दाणिं ।
बकुलावलिका । ४अयि सरीरंसि मे । नाट्येन चरणसंस्कारमारभते ।
राजा
चरणान्तनिवेशितां प्रियायाः
सरसां पश्य वयस्य रागरेखाम् ।
प्रथमामिव पल्लवप्रसूतिं
हरदग्धस्य मनोभवद्रुमस्य ॥ ११ ॥
विदूषकः । ६चलणाणुरूवो ख्खु तत्तहोदीए अहिआरो
उवख्खित्तो ।
राजा । सम्यगभिहितं भवता ।

१. किं विचारयसि । उत्सुका खल्वस्य तपनीयाशोकस्य कुसुमसमुद्रमे देवी ।
२. किं खलु न जानास्यकारणादेवीमामन्तःपुरनेपथ्येन न संयोजयिष्यतीति ।
३. हला मर्षयेदानीम् ।
४. अयि शरीरमसि मे ।
५. चरणानुरूप: खलु तत्रभवत्यां अधिकांर उपक्षिप्रः ।

1. D E विचिआरेसि.-DF अस्सिआ.
2. A c कुसुमग्गमे.
4. A B C D E insert णु after" किं "
and before & ख्खु."
5. B D E संजोअइसिदिति.
6. A B C D E दाणीं .
7. Our MSS चरणमलंकरोति. We
according to G.
8. A चलणाणुरूपो--A Cअधिहारो.