पृष्ठम्:मालविकाग्निमित्रम्.djvu/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४३
॥ मालविकाग्निमित्रम् ॥
नवकिसलयरागेणाग्रपादेन बाला
स्फुरितनखरुचा द्वौ हन्तुमर्हत्यनेन ।
अकुसुमितमशोकं दोहलपेक्षया वा
प्रणिहितशिरसं वा कान्तमार्द्रापराधम् ॥१२॥
विदूषकः । १पारइस्ससि अत्तहोदीए अवरध्धुम् ।
राजा । परिगृहीतं वचः सिद्विदर्शिनो ब्राह्मणस्य ।
। ततः प्रविशत्युन्मत्तवेषेरावती चेटी च ।
इरावतो । २हज्जे णिउणिए सुणामि बहुसो मदो किल
इथ्थिआजण्स्स विसेसमण्डणंति । अवि सच्चो लोअवादो ।
निपुणिका । पुढमं लोअवादो एव्व । अज्ज सच्चो संवुत्तो ।
इरावती । ४अलं सिणेहभणिदेण । कुदो दाणिं अवगदं
डोलाघरअं पुढमं गदो भट्टेत्ति ।
निपुणिका । ५भट्टिणीए अखण्डिदादो पणआदो ।
इरावती । ६अलं सेवाए । मझ्झथ्थदं गेण्हिअ भणाहि ।

१. पारथिष्यस्यत्रभवत्या अपराद्धुम् ।
२. हञ्जे निपुणिके शृणोमि बहुशो मदः किल स्त्रीजनस्यविशेषमण्डनमिति । अपि सत्यो
लोकवादः ।
३. प्रथमं लोकवाद एव । अद्य सत्यः संवृत्तः ।
४. अलं स्नेहभणितेन । कुत इदानीमवगतं दोलागृहं प्रथमं गतो भर्तेति ।
५. भट्टिन्या अखण्डितात्प्रणयात् ।
६. अलं सेवया । मध्यस्थतां गृहीत्वा मण ।

8. A हञ्ज.
9.F अअं for " अवि."
11. D संउत्तो.
12. B दाणीं.-- A B C D E
वुत्तन्तो आगमिदो for " अवगदं ".
14. B पणयादो ; E पणभदो .