पृष्ठम्:मालविकाग्निमित्रम्.djvu/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३६
॥ तृतोयोङ्कः ॥
राजा । भगवन्संकल्पयोने प्रतिबन्धवत्स्वापि विषयेष्वभिनिवेश्य तथा प्रहरसि यथा जनोयं कालान्तरक्षमो
न भवति । सविस्मयम् ।
क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्।
मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि॥2॥
विदूषकः । 1णं भणामि तस्सिं साहणिज्जे कज्जे किदो उवाओवख्खेवोति । ता पज्जव्वथ्थावेदु अत्ताणं तत्रभवं ।
राजा । अथेमं दिवसशेषमुचितव्यापारपराङ्मुखेन चेतसा
क्व नु खलु यापयामि ।
विदूषकः ।2 णं भवं अज्ज एव्व वसन्दपुढमावदारसूअआणि
रत्तकुरबआणि उवाअणं पेसिअ णववसन्तावदारावदेसेण इरावदीए णिअणिआमुहेण पथ्थिदो । इछ्छामि
अज्जउत्तेण सह डोलाहिरोहणं अणुहोदुंति । भवदावि से पडिण्णादं । ता पमदवणं जेव्व गछ्छेम्ह ।

१. ननु भणाभि तस्मिन्साधनीये कार्ये कृत उपायोपक्षेप इति । तत्पर्यवस्थापयत्वात्मानं
तत्रभवान् ।
२. ननु भवानद्यैव वसन्तप्रथमावतारसूचकानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्तावतारापदेशेनेराबत्या निपुणिकामुखेन प्रार्थितः । इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमदवनमेव गच्छावः ।

1. A B C D E प्रतिबन्धबस्तुष्वपि.
6. D उवाआवख्खेबो corrected from
उवाचोवख्खेदो.
9. F om नु.
10. B D° सअआणि.
11. A B C D°कुरवयाणि.-B पेसोअ.
12. A CD णिउणोआ ’—Our MSS
इछ्छेअं. We with G.
13. D E F अ-अ°–-A B C D
भवदापि.
14. A पडिणादं–A B C ज्येव----
B D E F गछुम्ह.