पृष्ठम्:मालविकाग्निमित्रम्.djvu/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३५
॥ मालविकाग्निमित्रम् ॥

। ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च ।

राजा । आत्मानं विलोक्य ।
शरीरं क्षामं स्यादसति दयितालिङ्गनसुखे
भवेत्सालं चक्षुः क्षणमपि न सा दृश्यत इति ।
तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं
प्रसक्ते निर्वाणे हृदय परितापं वहसि किम् ॥ १ ॥
विदूषकः । 1अलं भवदो धीरदं उज्झिअ परिदेविएण ।
दिठ्ठा ख्खु मए तत्तहोदीए मालविआए प्पिअसही बउलावलिआ । सुणाविदा अ तं अथ्थं भवदा जो संदिठ्ठो ।
राजा । ततः किमुक्तवती ।
विदूषक। 2विण्णवेहि भठ्ठारं । अणुगहीदाम्हि इमिणा णिओएण । किं दु सा तवास्सिणी देवीए अहिअदरं रख्खिअमाणा णाअरख्खिदो मणी विअ ण सुहं
समासादइदव्वा । तहवि घडइस्संति ।

१. अलं भवतो भरतामुज्झाित्वा परिदेवितेन । दृष्टा खलु मया तत्रभवत्या मालविकायाः
प्रियसखी बकुलाबलिका । श्राविता च तमर्थं भवता यः संदिष्टः ।
२. विज्ञापय भर्तारम् । अनुगृहीतास्म्यनेन नियोगेन । किं तु सा तपस्विनी देव्याधिकतरं रक्ष्यमाणा नागरक्षितो मणिरिव न सुखं समासादयितव्य । तथापि
घटिष्य इति ।

7. B उझ्झीअ.
8. AC D पिअ.
11. A विणवेहि.-A B C D E अणुगे
ण्हिदम्हि

12: F' सादर for "अहिअदरं."

13. A C D णाअरखिओ.-A B C D
वीअ।--A B C D E read
वीअ मणो, and add अहं ण्णिहं
रण्णा (=अहर्निशम्,राज्ञा)
14. D समासदयिदव्वा.--B घटईस्सं