पुटमेतत् सुपुष्टितम्
३६
॥ तृतोयोङ्कः ॥
- राजा । भगवन्संकल्पयोने प्रतिबन्धवत्स्वापि विषयेष्वभिनिवेश्य तथा प्रहरसि यथा जनोयं कालान्तरक्षमो
- न भवति । सविस्मयम् ।
- क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्।
- मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि॥2॥
- न भवति । सविस्मयम् ।
- विदूषकः । 1णं भणामि तस्सिं साहणिज्जे कज्जे किदो उवाओवख्खेवोति । ता पज्जव्वथ्थावेदु अत्ताणं तत्रभवं ।
- राजा । अथेमं दिवसशेषमुचितव्यापारपराङ्मुखेन चेतसा
- क्व नु खलु यापयामि ।
- विदूषकः ।2 णं भवं अज्ज एव्व वसन्दपुढमावदारसूअआणि
- रत्तकुरबआणि उवाअणं पेसिअ णववसन्तावदारावदेसेण इरावदीए णिअणिआमुहेण पथ्थिदो । इछ्छामि
- अज्जउत्तेण सह डोलाहिरोहणं अणुहोदुंति । भवदावि से पडिण्णादं । ता पमदवणं जेव्व गछ्छेम्ह ।
- १. ननु भणाभि तस्मिन्साधनीये कार्ये कृत उपायोपक्षेप इति । तत्पर्यवस्थापयत्वात्मानं
- तत्रभवान् ।
- २. ननु भवानद्यैव वसन्तप्रथमावतारसूचकानि रक्तकुरबकाण्युपायनं प्रेष्य नववसन्तावतारापदेशेनेराबत्या निपुणिकामुखेन प्रार्थितः । इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुमिति । भवताप्यस्यै प्रतिज्ञातम् । तत्प्रमदवनमेव गच्छावः ।
|
|