पृष्ठम्:मालविकाग्निमित्रम्.djvu/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
॥ द्वितीयोङ्कः ॥
देवी । १णिवृत्तेदु अज्जउत्तो मङ्झणविहिं ।
विदूषकः । २होदि विसेसेण पाणभोअणं तुवरेदु ।
परि० । उत्थाय । स्वस्ति भवते ।
[ सपरिजनया देव्या सह निष्क्रान्ता ।
विदूषकः । ३भो ण केवलं रूवे सिप्पेवि अद्दुदीआ माल-
विआ ।
राजा।
अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता ।
परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः॥१४॥
किं बहुना । चिन्तयितव्योस्मि ।
विदूषकः ।४भवदावि अहं । दिढं विपणिकन्दू विअ मे उदरम्भन्तरं ढज्जइ ।
राजा । एवमेव । भवान्सुहृदर्थे त्वरताम् ।

१. निर्वर्तयत्वार्यपुत्रो मध्याह्नविधिम् ।
२. भवति विशेषेण पानभोजनं त्वर्यताम् ।
३. भो न केवलं रूपे शिल्पेप्यद्वितीया मालविका ।
४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते ।

1. A C ण्वुित्तोदु; B D णिवत्तेदु, F
णिव्वदेदु-D E F अ-अ°
6. A C D E F सिप्पे अ for ‘‘सिप्पेवि."
12. B ढढज्जई.
18. A B C D E त्वरते.