पृष्ठम्:मालविकाग्निमित्रम्.djvu/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९
॥ मालविकाग्निमित्रम् ॥
राजा । आत्मगतम् । अवसितो दर्शनार्थः। प्रकाशम् । दाक्षिण्यमवलम्य
हरदत्त पर्युत्सुका एव वयम् ।
हर० । अनुगृहीतोस्मि ।

।। नेपथ्ये ।।

वैतालिकः। जयतु देवः । उपारूढो मध्यमह्न: सविता ।
तथा हि ।
पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां
सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि ।
बिन्दूत्क्षेपात्पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रं
सर्वैरुलैः समग्रैस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥१३॥ 10
विदूषकः।१अवि हा अविहा । ण्हाणभोअणवेला संवुत्ता अत्तहोदो । उइदवेलादिक्कमे चिइस्सआ दोसं उदाहरन्ति ।
राजा । हरदत्त किं भणसि ।
हर० । नास्त्यवकाशो मद्वचनस्य ।
राजा । हरदत्तं विलोक्य । तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः। 15
विश्राम्यतु भवान् ।
हर० । यदाज्ञापयति देवः ।
[इति निष्कान्तः ।]

१. अपि हा अपि हा । स्नानभोजनवेला संवृत्तात्रभवतः । उचितवेलातिक्रमे चिकित्सकादोषमुदाहरन्ति ।

5. C उपारूढो मध्यः सविता
11. A C do not repeat "अवि हा ."
-E अत्तहोदे
12. B C D E चिइस्सया.

16. B D विश्रम्यतु .