पृष्ठम्:मालविकाग्निमित्रम्.djvu/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६
॥ द्वितीयोङ्कः ॥
परि० । यथाशास्त्रं सर्वमनवद्यम् । कुतः ।
अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः
पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।
शाखायोनिर्मृदुराभिनयस्तद्विकल्पानुवृत्तौ
भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ९ ॥
गण । देवः कथं मन्यते ।
राजा। गणदास वयं स्वपक्षशिथिलाभिमानाः संवृत्ताः ।
गण । अथ नर्तयितास्मि ।
उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः ।
श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ।। १० ॥
देवी । १दिठ्ठिआ परीखकाराहणेण अज्जो वढ्ढइ ।
गण ० । देवीपरिग्रहश्च मे वृद्धिहेतुः । विदूषकं विलोक्य । गौतम वदेदानीं यत्ते मनसि वर्तते ।
विदूषकः । २पुढमोवदेसदंसणे पुढमं बम्हणस्स पूआ इछ्छिदव्वा । सा उण वो विसुमरिदा ।

१. दिष्ट्या परीक्षकाराधनेनार्यो वर्धते ।
२. प्रथमोपदेशादर्शने प्रथमं ब्राह्मणस्य पूजेष्टव्या । तस्याः पुनर्यूयं विस्मृतवन्तः ।

8. F' अद्य for +अथ."
11. A B परिख्खराहणेण - D E F
अ-आ-A B C D E परि-
ख्ख०.
14. A पदमो°-B D E पूया.
15. Our MSS. सा ण वोपलख्खिदा
( = सा न व उपलक्षिता). We
according to G.