पृष्ठम्:मालविकाग्निमित्रम्.djvu/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७
॥ मालविकाग्निमित्रम् ॥
परि० । अहो प्रयोगाभ्यन्तरः प्राश्निकः।
सर्वे । प्रहसिताः ।

। मालविका च स्मितं करोति ।

राजा । आत्मगतम् । आत्तसारश्चक्षुषा स्वविषयः । यदनेन
स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । 5
असमग्रलक्ष्यकेसरमुच्छसदिव पङ्कजं दृष्टम् ॥ ११ ॥
गण० । महाब्राह्मण न खलु नेपथ्यसंगीतकमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः ।
विदूषक । १मए णाम मुध्धचादएण विअ सुख्खघणगज्जिदे अन्तरिख्खे जलपाणं इछ्छिदं ।
परि० । एवमेव ।
विदूषकः । २तेण हि पण्डिदपरिदोसपच्चआ मूढ़ाजादी । जइ
तत्तहोदीए सोभणं गण्हिदं तदो इमं पारितोसिअं
पअछ्छामि । इति राज्ञो हस्तात्कटकमाकर्षति

१. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेन्तरिक्षे जलपानमिष्टम्।
२. तेन हि पण्डितपरितोषप्रत्यया मूढजातिः । यद्यत्रभवत्या शोभनं गृहीतं तदिदं पारि-
तोषिकं प्रयच्छामि ।

1. F' प्रयोगाभ्यन्तरप्रा°.
7. B F' नैपथ्य°.
8. F दक्षणीयं for अर्चनीयंः
9. B°चादयेण--E सुक्कघण.
12. F' पण्डिअ.- E परितोस.
13. F' भणिदं→ for ‘गण्हिदं:”-–E F'
अत्तदोदीए-B तदा for "तदो".
14. B F om. इति,’ C E om. the
whole stage-direction be-
ginning from “ इति .”