पृष्ठम्:मालविकाग्निमित्रम्.djvu/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१
॥ मालविकाग्निमित्रम् ॥
राजा । आत्मगतम् । अहो सर्वास्ववस्थासु चारुता शोभां पुष्यति ।
तथा हि
वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटपसदृशं लस्तमुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं
नृतादस्याः स्थितमतितरां कान्तमृज्वायतार्धम् ॥७॥
देवी । 1'णं गोदमवअणंपि अज्जो हिअए करेदि ।
गण० । देवि मैवम् । देवप्रत्ययात्संभाव्यते सूक्ष्मदर्शिता गौतमस्य । पश्य ।
मन्दोप्यमन्दतामेति संसर्गेण विपश्चितः।
पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ८ ॥
विदूषकं विलोक्य । शृणुमो विवक्षितमार्यस्य ।
विदूषकः। गणदासं विलोक्य । 2सख्खिणीं दाव पुछु ।पछ्छा जो मये कमभेदो लख्खिदो तं भणिस्सं ।
गण° । भगवति यथादृष्टमभिधीयतां दोषो वा गुणो वा ।

१. ननु गौतमवचनमप्यार्यो हदये करोति ।
२. साक्षिणीं तावत्पृच्छ । पश्चाद्यो मया क्रमभेदो लक्षितस्तं भणिष्यामि ।

1. A B C D E सर्वावस्थासु. - F
शोभान्तरम्.
11. A B C D E निकर्षेण.
13. A B C D E भिख्खुणीं for “ स-
ख्खिणीं
14. D E तं.
16. A B C D E यथादर्शनम् for
यथादृष्टम्"