पृष्ठम्:मालविकाग्निमित्रम्.djvu/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
॥ द्वितीयोङ्कः ॥
1एसो सो चिरदिठ्ठो कहं उवणइदव्वो
णाह मं पराहीणं तुइ गण अ सतिण्हं ॥ ५ ॥

इति यथारसमभिनयति ।

विदूषक: । जनान्तिकम् । 2भो चऊप्पदंवथ्थुअं दुवारं कदुअ तुइ
उवख्खित्तो विअ अप्पा तत्तहोदीए ।
राजा । सखे एवमावयोर्ह्रदयम् । अनया खलु
जनमिममनुरक्तं विद्धि नाथेति गेये
वचनमभिनयन्त्या स्वाङ्गनिर्देशपूर्वम ।
प्रणयगतिमदष्ट्वा धारिणीसंनिकर्षाद
अहमिव सुकुमारप्रार्थनाव्याजमुक्त: ॥ ६ ॥
मालविका । गातान्ते गन्तुमिच्छति ।
विदूषक:। ३होदि चिठ्ठ । किंवि विसुमारिदं कमभेदेण । तं पुच्छिस्सं दाव ।
गणं । वत्से स्थीयताम् । उपदेशाविशुद्धौ यास्यसि ।
मालविका । निवृत्य स्थिता ।

१. एषोसौ चिरदुष्ट: कथमुपनेतव्यः । नाथ मां पराधीनां त्वयि गणय सत्रुष्णाम्।
२. भो चतुष्पदं वस्तुकं द्वारं क्रुत्वा त्वय्युपक्षिप्त इवात्मा तत्रभवत्या ।
३. भवति तिष्ठस्व। किमपि विस्मृतं क्रमभेदेन तत्प्रक्ष्यामि तावत् ।

3. A omits the whole of "इति
यथारसमभिनयति."
5. D E उवख्खित्तो.
6. A om. "सखे"
12. B D किमपि. A C E किंपि.-
C D भेदेन.-A omits "तं"
before "पुछ्छिस्सं".-B D E कम-
भेदेण (=क्रमभेदेन.)
14. A विशुद्धा,F शुद्धौ.
15. B निर्वृत्य.