पृष्ठम्:मालविकाग्निमित्रम्.djvu/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३
॥ मालविकाग्निमित्रम् ॥
विदूषकः । जनान्तिकम्-। 1पेख्खदु भवं। ण हु से डिछ्छन्दादो
परिहीअदिं मंडुरंदा ।
राजा । जनान्तिकम् । वयस्य
चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् ।
संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता। ॥ २ ॥
गण° । वत्से मुक्तसाध्वसा सत्त्वस्था भव ।
राजा । आत्मगतम् । अहो सर्वास्ववस्थास्वनवद्यता रूपस्य ।
दीर्घाक्षं शरदिन्दुकान्तिवदनं बाहू नतावंसयोः
संक्षिप्तं निबिडोन्नतस्तनमुरः पाश्र्वे प्रमृष्टे इव ।
मध्यः पाणिमितो नितम्बि जघनं मदावरालाङ्गुली 10
छन्दो नर्तयितुर्यथैव मनसः श्लिष्टं तथास्या वपुः ॥ ३ ॥
मालविका । उपवहनं कृत्वा चतुष्पदं वस्तु गायति ।
1दुल्लहो पिओ तस्सिं भव हिअअ णिरासं ।
अम्हो अपङ्गओ मे पफ़्फ़ुरइ किंपि वामो ॥ ४ ॥

१. पश्यतु भवान् । न खल्वस्याः प्रातिच्छन्दात्परिहीयते मधुरता ।
२. दुर्लभः प्रियस्तस्मिन्भव हदय निराशम्। अम्ब हे अपाङ्गको मे प्रस्फुरति किमपि वामः ।

2. A B C DE पडिहीअदि.
6. B C D E मुग्धसाध्वसा.
7. A B C D E सर्वावस्थासु.
11. A C D मनसश्चष्टें (मनसैः शिष्टं?);
B मनसः शिष्ट, corrected from
मनसद्धि ; B मनसां शिष्टं also
corrected from मनसश्लिष्टं
12. F कपोतकं कृत्वा
18. D E पियो.-B D E हियय
14. B DE अपङ्गयो.-क्विविं.
वामओ.